पृष्ठम्:देलरामाकथासारः.pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः।]
२९
देलरामाकथासारः।

अहमतो ह्यधुना तव किंकरी ललितकान्तिवशीकृतमानसा ।
त्वमपि जीवितनाथ इहास्ति यन्मम धनं त्वदधीनमिदं हितम् ॥ ३ ॥
तदपि कौतुकमेकमिहाद्य मे मनसि जीवितनाथ विजृम्भते ।
यदसितोत्कलिकावशतः सदा न रसिकास्मि तु कुत्रचिदप्यहो ॥ ४ ॥
तदहमस्मि तवाद्य यदि प्रिया यदि च वेत्सि तु मामनुरागिणीम् ।
मयि चिकीर्षसि चेत्त्वमनुग्रहं कथय तत्कुतुकं विनिवारय ॥ ५ ॥
इति निशम्य तदीयगिरं ततो मधुमदापहृताखिलचेतनः ।
सपदि तां तदपृच्छदसौ तदा किमिति संभ्रमतो नृपनन्दनः ॥ ६॥
अथ ततो गणिका निजगाद सा यदि विवर्णयसि स्फुटमद्य मे ।
यदि न कुप्यसि नाथ मनागपि प्रियतम ध्रुवमद्य वदामि तत् ॥ ७ ॥
वद तदद्य तु वेद्मि यदि प्रिये ध्रुवमिह द्रुतमेव मयोद्यते ।
इति निशम्य नृपात्मजभारतीं सपदि वक्तुमसावुपचक्रमे ॥ ८ ॥
न निजधाम न चानुचरागमो न च बहिर्गमनं तव दृश्यते ।
न हि तु किंचिदपि स्वकरेऽप्यहो किमपि नैव च भाण्डमपि प्रभो ॥९॥
इयदहो प्रतिवासरमेव तत्कुत इदं द्रविणं तव विद्यते ।
इति हि जीवितनाथ कुतूहलं मनसि संप्रति तिष्ठति मेऽनिशम् ॥१०॥
अथ स वारवधूमविदन्निमां कुसृतिवञ्चनतत्परमानसाम् ।
सुपरिपीतघनासवमोहितः सरलहृत्समभाषत सत्यतः ॥ ११ ॥
शृणु पुरैकविहंगसुता हि नः समभवत्सवने सदने कृशा ।
बत निहत्य तु तामपचत्कदाचिदपि मज्जननी विजने स्वयम् ॥ १२॥
अथ तमेव तदीयमुरस्तदा द्रुततरं विनिगीर्य निजे गृहे ।
किमपि कर्म विधातुमथो बहिर्व्रिगतमातरि जातबुभुक्षया ॥ १३ ॥
 यतः प्रभृति खादितं तदपि किं तु वक्षो मया
 ततः प्रभृति सर्वदा द्रविणमेतदुत्पत्स्यति ।
 निजोरसि च वल्लभे किल तदस्ति जानेऽस्ति मे
 तदन्तिकतमांशुके कथमिदं भवेदन्यथा ॥ १४ ॥