पृष्ठम्:देलरामाकथासारः.pdf/३५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
पुटमेतत् सुपुष्टितम्
२८
काव्यमाला।


ततो गतायां कमनीयभोगैर्मुहूर्तवत्तत्र तु यामवत्याम् ।
प्रविश्य चेटी तमुवाच कोपान्निर्याहि तूर्णं सदनादमुष्मात् ॥ ३६ ॥
दत्ता यथा ह्यो भवता स्वभाटी तथाद्य योऽस्यै हि ददाति कामी ।
स एतया साकमिहैकरात्रिं भोगान्यथेच्छं भजते मनोज्ञान् ॥ ३७॥
श्रुत्वेति तद्वाक्यमथाभ्यधात्तां मयैव भाटी प्रतिपाद्यतेऽद्य ।
तथैव ह्यः किं तु यथैव नूनं मिथ्यातिकोपं त्यज चेटिके त्वम् ॥ ३८ ॥
उक्त्वेति संरम्भवशेन तूर्णं प्रक्षिप्य भाटी पुरतो यथोक्ताम् ।
तथैव भेजे विविधान्नपानस्वेच्छाहितानल्परतोपभोगान् ॥ ३९ ॥
तस्यां गतायामपि यामवत्यां तथैव दासीवचनेन सद्यः ।
प्रक्षिप्य भाटीं पुरतो यथोक्तां निशामुखं प्राग्वदसौ सिषेवे ॥ ४०॥
इत्थं तदानीं कतिचिद्दिनेषु यातेषु दध्यावथ वारयोषित् ।
यथोक्तदीनारसमर्पणेन प्रभूतसंभूतकुतूहला सा ॥ ४१ ।।
अहो न कोशादि विलोक्यतेऽस्य स्वहस्तगं नो द्रविणं च किंचित् ।
न चापि कश्चिद्भृतकोऽनुयायी बहिश्च नो निर्गमनं कदाचित् ॥४२॥
कुतः समानीय ददाति वित्तं चेटीगिरा संप्रति तूर्णमेषः ।
यथोक्तदीनारचयं हि मह्यं को हेतुरत्रेति न वेद्मि हन्त ॥ ४३ ॥
 इत्थं विमृश्य सुचिरं हृदये तदानीं
 ज्ञातुं तदीयधनसंभवकारणं सा ।
 कर्तुं च किंचिदपि कौतुकमात्मसिद्ध्यै
 तं चापि वञ्चयितुमेव समुद्यताभूत् ॥ ४४ ॥

इति देलरामाकथासारे देलरामासमागमनानन्तरं राजपुत्रस्य वञ्चनोपायो नाम

सप्तमः सर्गः।

अष्टमः सर्गः।

अथ समारभतात्मधनेन सा वरतरं स्वमहोत्सवमेकदा ।
मधु नितान्तमपाययदत्र तं सविनयं प्रणिपत्य पुनः पुनः ॥ १ ॥
मधुमदेन तु निष्कलमीक्ष्य तं विनयपूर्वमपृच्छदसौ स्वयम् ।
किमिति वित्तचयेन भवेद्विभो यदि भवद्विध एति सुकामुकः ॥२॥