पृष्ठम्:देलरामाकथासारः.pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः ।]
२७
देलरामाकथासारः।

दम्भोलिमध्यामपि वंशनासामानन्ददामन्दसुसुन्दरत्वात् ।
तां सुन्दरीं वीक्ष्य ननन्द तत्र पूर्णेन्दुवक्रां स नरेन्द्रसूनुः ॥ २३ ॥
  (चतुर्भिः कुलकम्)
ततः स दध्यौ नरनाथसूनुर्नवीनसंभूतमनोभवार्तिः ।
इयत्यहो नो ददृशे न काचिन्मया पुरेऽस्मिन्भ्रमता पुरंध्री ॥ २४ ।।
किमप्सराः काचिदियं तु नाकाच्छापावतीर्णा धरणीतलेऽत्र ।
पुरान्तरात्किं बहिरन्यथेयं व्यक्तं समारुह्य करोति हर्म्यम् ॥ २५ ॥
ध्यात्वेति निर्याय नरेन्द्रसूनुरुद्यानमध्यात्सहसा ततः सः ।
तदन्तिके कांचिदुपेत्य दासीं पप्रच्छ केयं ललना स्थितेति ॥२६॥
सा चेटिका भूमिपतेस्तनूजं जगाद जातामितकौतुकं तम् ।
इयं पुरेऽस्मिन्प्रथिताभिरामा वेश्यास्ति नाम्ना खलु देलरामा ॥२७॥
दीनारराशिं विगणय्य सद्यः शतत्रयं यो हि ददाति चास्यै
एकां स रात्रिं भजते विचित्रभोगैः सुखं साकमथानयेह ॥ २८ ॥
श्रुत्वेति संचोदितचित्तवृत्तिर्लब्धावकाशेन मनोभवेन ।
अद्य प्रयच्छामि शतत्रयं यत्तूर्णं समावेदय चेत्युवाच ॥ २२॥
ततस्तया हर्षपुरःसरं तत्समीपमागत्य निवेदितः सः ।
तदीयवाचा प्रविवेश देलरामाभिरामालयमुच्चशोभम् ॥ ३०॥
विलोक्य तं साद्भुतरूपकान्तिं मनोहराकारमुदारशोभम् ।
प्रत्युद्ययौ जातनितान्तहर्षा निजासनार्धं सविधे निधाय ॥ ३१ ।।
नानास्वलंकारभराभिरामां सदान्यरामाधिककान्तिकान्ताम् ।
विलासहास्यादिगुणाविरामां ददर्श हर्षादथ देलरामाम् ॥ ३२ ॥
अन्योन्यमालिङ्गय ततोऽतिगाढं कपोलयुग्मं परिचुम्व्य चैव ।
प्रीतिं प्रकल्प्य प्रथमं नितान्तं चैकं त्वलंचक्रतुरासनं तौ ॥ ३३ ॥
चेटीगिरा तत्पुरतस्तदानीं दीनारराशिं विगणय्य सद्यः ॥
स सर्वमेवात्र तु सावहेलं चिक्षेप वस्त्रान्तरतो विकृष्य ॥ ३४ ॥
तदन्तिके चाथ विचित्रशोभं पर्यङ्कमारुह्य नितान्तरम्यम् ।
नानाविधैर्भोगचयैर्यथेच्छं संभोगसौख्येन च पिप्रिये सः ॥ ३५ ।।