यदेव भवती जगाद जननि प्रियं मे हितं
तदद्य विहितं मया सपदि सावहेलं निशि ॥ १५ ॥
निशम्य वणिजो वचस्तदिति सा विमृश्य क्षणं
जगाद जरती विहस्य वणिजं गुरुज्ञानवित् ।
यदत्र तनया भवद्वरतरं हि सारं परं
न जग्धमपि तत्त्वया प्रचुरकाम्यसिद्धिप्रदम् ॥ १६ ॥
स चावददथो किमन्यदधिकं ब्रवीषि द्रुतं
ह्यतो जननि कथ्यतां हृदि विमृश्य मे निर्णयात ।
मयैव ननु खादितं सकलमेव चैकाकिना
तयार्पितममन्दरागवशतः सगात्रं पलम् ॥ १७ ॥
उवाच जरती पुरः शृणु वदामि सत्यं तव
भृशं तनयसारभूतमभवद्विहंग्याः शिरः।
उरश्च यदहो तदेव खलु तत्सुतौ जक्षतु-
स्त्वया यदपि भुक्तमद्य च तदन्यमांसोपमम् ॥ १८ ॥
स्वपुत्रयुगखादितावयवहीनभाण्डं ततो
विलोक्य सहसा भृशं तनयभूरिदुःखाकुला ।
त्वदीयभयकारणादपि कुतश्चिदानीय सा
निहत्य शकुनि परं किल तदङ्गतोऽपूपुरत् ॥ १९ ॥
स सार्थपतिराह तामथ विचिन्तयन्स्वात्मनः
कुभाग्यपरिजृम्भितं प्रसभविप्रतीसारवान् ।
क एतदशनेन संभवति मातरुच्चैर्गुण-
प्रभावगरिमा च को यदनिशं प्रशंसस्यलम् ॥ २० ॥
तमाह जरती ततस्तनय यो हि भुङ्क्ते शिर-
स्तदीयमुत यत्र यत्र हि तिष्ठति प्राज्यधीः ।
अवाक्ष्यति स तत्र तत्र सहसैव राज्यं मह-
त्सुखं च कमनीयमेव नितरां यथेष्टं शुभम् ॥ २१ ॥
पृष्ठम्:देलरामाकथासारः.pdf/२२
पुटमेतत् सुपुष्टितम्
५ सर्गः ।।
१५
देलरामाकथासारः।