पृष्ठम्:देलरामाकथासारः.pdf/१३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाला।

 इति निजपुरवार्तां तामजानन्स राजा
 मुषितसकलभूषारत्नविच्छायशोभः ।
 द्रुतपदमवरोधोत्कण्ठितोऽथ प्रतस्थे
 शबरनिबिडबन्धायासितो राजधानीम् ॥ ८॥
 कतिपयमथ वर्त्मातीत्य गच्छन्पुरस्ता-
 न्नरपतिरथ पभ्द्यां मेरभक्तां ददर्श ।
 मलिनवसनभाजं स्वप्रियां तां रुदन्ती
 विगतनिजपरिष्कारां भिया क्षिप्रयान्तीम् ॥९॥
अथ तां निरीक्ष्य च कथंचिदेव स प्रविभाव्य भूमिपतिरात्मवल्लभाम् ।
घनतप्तबाष्पजलगद्गदस्वरो निजशोककारणमपृच्छदन्तिके ॥ १०॥
 अयि वैशसकारणं प्रिये वद केनासि नितान्तदुःखिता।
 विगतांशुकभूषणा कथं क च यासि द्रुतगामिनी पुरः॥ ११ ॥
 अथ सा विनतानना पतिं तमुदीक्ष्यावददश्रुगद्गदम् ।
 सचिवैस्तव राज्यमर्पितं ह्यपरस्मै द्रुतमेत्य पत्तनम् ॥ १२॥
 अहमप्यपनीतभूषणा नगरादद्य पलाय्य चागता ।
 त्वमपि क्व नु यासि सांप्रतं यदि दृष्टो रिपुभिर्निहन्यसे ॥ १३ ॥
 तदितस्त्वरितं तु कंचनापरदेशं हि मया सह व्रज ।
 अनुकूलविधिस्तथापि ते यदहं संघटिता पुरोऽधुना ॥ १४ ॥
 इति तद्वचनेन दुःखितः प्रविहाय स्वपुरस्पृहां नृपः ।
 परदेशमथोपचक्रमे सहसा गन्तुमरातिसाध्वसात् ॥ १५ ॥
अथ स भूमिपतिर्दयितासखो गहनभूधरवर्त्म परिभ्रमन् ।
कमपि देशमवाप्य चकार तद्वसतिमध्वघनश्रमखेदितः ॥ १६ ॥
न गुणवान्न च विक्रमलाञ्छनो न कवितापि च यत्र हि पूज्यते ।
परमसौ बत जीवति यः सदा नयति काष्ठचयं गहनान्तरात् ॥ १७ ॥
स नृपतिः सुकुमारशरीरवानपि दरिद्रतया विवशीकृतः ।
अधमवंशजनेऽपि विगर्हितामपि कुवृत्तिमजिग्रहदेव ताम् ॥ १८ ॥