प्राकरणिकस्य भाविनोऽर्थस्य सूचकं रूपं पताकावद्भवतीति पताकाम्थानकम् ।
तच्च तुल्येतिवृत्ततया तुल्यविशेषणतया च द्विप्रकारम् । अन्योक्तिसमासोक्तिभेदात् ।
यथा रत्नावल्याम् --
'यातोऽस्मि पद्मनयने समयो ममैष सुप्ता मयैव भक्ती प्रतिबोधनीया। प्रत्यायनामयमितीव सरोरुहिण्याः सूर्योऽस्तमस्तकनिविष्टकरः करोति ।।' यथा च तु विशेषणतया -
'उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भाम्क्षणा-
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः ।
अद्योद्यानलतामिमाम् समदनां नारीमिवान्यां ध्रुवं
पश्यन्कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ॥'
एवमाधिकारिकद्विविधप्रासङ्गिकभेदात्रिविधस्यापि त्रैविध्यमाह-
प्रख्यातोत्पाद्यमिश्रत्वभेदात्रेधापि तत्रिधा ।
प्रख्यातमितिहासादेरुत्पाद्यं कविकल्पितम् ॥ १५ ॥
मिश्रं च संकरात्ताभ्यां दिव्यमर्त्यादिभेदतः।
इति निगदव्याख्यातम् ॥ तस्येतिवृत्तस्य किं फलमित्याह -
कार्यम् त्रिवर्गस्तच्छुद्धमेकानेकानुबन्धि च ।। १६ ॥
धर्मार्थकामाः फलम् । तच्च शुद्धमेकैकमेकानुबन्धं द्वित्र्यनुबन्धं वा ।। तत्साधनं व्युत्पादयति-
स्वल्पोद्दिष्टस्तु तद्धेतुर्बीजं विस्तार्यनेकधा ।
स्तोकोद्दिष्टः कार्यसाधकः पुरस्तादनेकप्रकारं विस्तारी हेतुविशेषो बीजवद्बीजम् । यथा रत्नावल्यां वत्सराजस्य रत्नावलीप्राप्तिहेतुरनुकूलदैवो यौगंधरायणव्यापारो विष्कम्भके न्यस्त:--'यौगंधरायणः---कः संदेहः । ('द्वीपादन्यस्मात्-'इति पठति ।) इत्यादिना 'प्रारम्भेऽस्मिन्स्वामिनो वृद्धिहेतौ' इत्यन्तेन ।
यथा च वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भीमक्रोधोपचितयुधिष्ठिरोत्साहो बीजमिति । तच्च महाकार्यावान्तरकार्यहेतुभेदादनेकप्रकारमिति ॥
१. 'नान्तो', 'त्रेधा' इति पाठौ