पृष्ठम्:दशरूपकम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमः प्रकाशः ।

रसानाश्रित्य वर्तमानं दशप्रकारकम् । एवेत्यवधारणं शुद्धाभिप्रायेण नाटिकायाः संकीर्णत्वेन वक्ष्यमाणत्वात् ॥ तानेव दशभेदानुद्दिशति-

नाटकम् सप्रकरणं भाणः प्रहसनम् डिमः ।।
व्यायोगसमवकारौ वीथ्यङ्केहामृगा इति ।। ८ ।।


ननु 'डोम्बी श्रीगदितम् भाणो भाणीप्रस्थानरासक्राः । काव्यं च सप्त नृत्यस्य भेदाः स्युस्तेऽपि भाणवत् ॥' इति रूपकान्तराणामपि भावादवधा रणानुपपत्तिरित्याशङ्क्याह--

अन्यद्भावाश्रयं नृत्यम्

रसाश्रयान्नाट्याद्भावाश्रयं नृत्यभन्यदेव । तत्र भावाश्रयमिति विपभेदान्नृत्यमिति नृतेर्गात्रविक्षेपार्थत्वेनाङ्गिकबाहुल्यात्तत्कारिषु च नर्तकव्यपदेशाल्लोकेऽपि चात्र प्रेक्षणीयकमिति व्यवहारान्नाटकादेरन्यन्नृत्यम् । तद्भेद त्वाच्छ्रीगदितादेरवधारणोपपत्तिः । नाटकादि च रसविषयम् । रसस्य च पदार्थीभूतविभावादिकसंसर्गात्मकवाक्यार्थहेतुकत्वाद्वाक्यार्थाभिनयात्मकत्वम् रसाश्रयमित्यनेन दर्शितम् । नाट्यमिति च 'नट अवस्पन्दने' इति नटे: । अतएव तत्कारिषु नटव्यपदेशः ।। यथा च गात्रविक्षेपार्थत्वे समानेऽप्यनुकारात्मकत्वेन नृतादन्यन्नृत्यं तथा वाक्यार्थाभिनयात्मकान्नाट्यात्पदार्थाभिनयात्मकमन्यदेव नृत्यमिति ।।। प्रसङ्गान्नृत्तं व्युत्पादयति-

नृत्तं ताललयाश्रयम् ।

तालश्चञ्चत्पुटादिः । लयो द्रुतादिः । तन्मात्रापेक्षोऽङ्गविक्षेपोऽभिनयशून्यो नृत्तमिति ॥ अनन्तरोक्तं द्वितयं व्याचष्टे-

आद्यम् पदार्थाभिनयो मार्गो देशी तथा परम् ॥ ९ ॥

नृत्यं पदार्थाभिनयात्मकं मार्ग इति प्रसिद्धम् । नृत्तं च देशीति ॥ द्विविधस्यापि द्वैविध्यं दर्शयति----

मधुरोद्धतभेदेन तद्वयम् द्विविधं पुनः ।।
लास्यताण्डवरूपेण नाटकाद्युपकारकम् ।। १० ।।

सुकुमारम् द्वयमपि लास्यमुद्धतं द्वितयमपि ताण्डवमिति । प्रसङ्गोक्तस्यो-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/२६&oldid=220855" इत्यस्माद् प्रतिप्राप्तम्