पृष्ठम्:दशरूपकम्.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः ॥

श्रीधनंजयविरचितं

दशरूपकम् ।

धनिककृतयावलोकाख्यया व्याख्यया समेतम् ।


प्रथमः प्रकाशः ।

 इह सदाचारं प्रमाणयद्भिरविघ्नेन प्रकरणस्य समाप्त्यर्थमिष्टयोः प्रकृता- भिमतदेवतयनमस्कारः क्रियते श्लोकद्वयेन--

नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते ।।
मदाभोगघनध्वानो नीलकण्ठस्य ताण्डवे ।। १ ।।

 यस्य कण्ठः पुष्करायते मृदङ्गवदाचरति । मदाभोगेन घनध्वानो निबिडध्वनिः । नीलकण्ठस्य शिवस्य ताण्डव उद्धते नृत्ते । तस्मै गणेशाय नमः । अत्र खण्डश्लेषाक्षिप्यमाणोपमाच्छायालंकारः । नीलकण्ठम्य मयूरम्य ताण्डवे यथा मेघध्वनिः पुष्करायत इति प्रतीतेः ॥

दशरूपानुकारेण यस्य माद्यन्ति भावकाः ।
नमः सर्वविदे तस्मै विष्णवे भरताय च ।। २ ।।

 एकत्र मत्स्यकूर्मादिप्रतिमानामुद्देशेन, अन्यत्रानुकृतिरूपनाटकादिना यस्य भावका ध्यातारो रसिकाश्च माद्यन्ति हृप्यन्ति तम्मै विष्णवेऽभिमनाय प्रकृतार्य भरताय च नमः ।।

 श्रोतुः प्रवृत्तिनिमित्तं प्रदर्श्यते---

कस्यचिदेव कदाचिद्दयया विषयं सरस्वती विदुषः ।।
घटयति कमपि तमन्यो व्रजति जनो येन वैदग्धीम् ।। ३ ।।

 तं कंचिद्विषयं प्रकरणादिरूपम् कदानिदेव कस्यचिदेव कवेः सरस्वती योजयति । येन प्रकरणादिना विषयेणान्यो जनो विदग्धो भवति ।।

 स्वप्रवृत्तिविषयं दर्शयति---

उद्धृत्योद्धृत्य सारं यमखिलनिगमान्नाट्यवेदम् विरिञ्चिश्चक्रे
यस्य प्रयोगम् मुनिरपि भरतस्ताण्डवं नीलकण्ठः ।।
शर्वाणी लास्यमस्य प्रतिपदमपरं लक्ष्म कः कर्तुमीष्टे
नाट्यानां किंतु किंचित्प्रगुणरचनया लक्षणं संक्षिपामि ।। ४ ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:दशरूपकम्.pdf/२४&oldid=220843" इत्यस्माद् प्रतिप्राप्तम्