पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/३९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


ॐ तत्सद्भह्मणे नमः ।

कृष्णयजुर्वेदीयतैत्तरीयारण्यकान्तर्गता

तैत्तिरीयोपनिषत्

आनन्दगिरिकृतटिप्पणसंवलितशांकरभाष्यसमेता।

भाष्योपोद्घातः ।

मङलाचरणम्

यस्माज्जातं जगत्सर्वं यास्मिन्नेव प्रलीयते ।

नेचर येनेदं धार्यते चैव तस्मै ज्ञानात्मने नमः ॥१॥

यैरिमे गुरुभिः पूर्वं पदवाक्यप्रमाणतः ।

व्याख्याताः सर्ववेदान्तास्तान्नित्यं प्रणतोऽस्म्यहम् ॥२॥

भाष्यस्य संप्रदाय पूर्वकत्वम्

तैत्तिरीयकसारस्य मयाऽऽचार्यप्रसादतः।

विस्पष्टार्थरुचीनां हि व्याख्येयं संप्रणीयते ॥३॥


यत्प्रकाशसुखाभिनं यन्मन्त्रेण प्रकाशितम् ।

विवृतं ब्राह्मणे तस्यामदृश्यं ब्रह्म निर्भयम् ॥ १ ॥

यजुर्वेद-शाखाभेदं तैत्तिरीयकोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारस्तत्प्रतिपाद्यम् ब्रह्म:, जगज्जन्मादिकारणत्वेन तटस्थलक्षणेन मन्दमतीन्प्रति सामान्येनोपलक्षितं, सत्यज्ञा नादिना च स्वरूपलक्षणेन विशेषतो विनिश्चितं, नमस्कारच्छलेन संक्षेपतो दर्शयति- यस्माज्जातमिति । निमित्तोपादानत्वयोः पञ्चम्याः साधारण्यादुभयविधमपि कारणत्वमिह विवक्षितम् । कार्यविलयस्य प्रकृतावेव नियतत्वाद्विशेषतः प्रकृतित्वमाह-यस्मिन्नेवेति । कार्यधारणस्य निमित्तेऽपि धर्मादौ प्रासिद्धत्वात्साधारणकारणत्वमाह--येनेति। ज्ञानात्मन इति स्वरूपलक्षणसूचनम् ॥ १ ॥ गुरुभक्तेर्विद्याप्राप्तावन्तरङ्गसाधनत्वं ख्यापयितुं गुरून्प्रणमति--> यैरिति । पदानि च वाक्यानि च प्रमाणं चानुमानादि-तद्विवेचनेन व्याख्याता इत्यर्थः ॥ २ ॥ चिकीर्षितं निर्दिशति-तैत्तिरीयकेति । व्युत्पन्नस्य पदेभ्य एव पदार्थस्मृतिसंभवान्, पदस्मारितपदार्थानां संसर्गस्यैव वाक्यार्थत्वात्, सूत्रकारेणौपनिषत्तत्पर्यस्य निरूपितत्वाच्च, व्यर्थः पृथग्व्याख्यारम्भ इत्याशङ्कयाऽह-विस्पष्टार्थेति । मन्दमतीनां स्वत एव नि:शे-