पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(२)

इत्यादिना सर्वप्राणिनां जीवनहेतुत्वेन, 'यदा ह्येवैषः'इत्यादिना विद्वदविद्वद्भयाभयहेतुत्वेन च तदेव सत्वं दृढीचकार । अनन्तरं च 'सैषाऽऽनन्दस्य मीमांसा' इत्यादिनाऽऽनन्दमीमांसामारभ्य सार्वभैमादिहिरण्यगर्भान्तानामानन्दानामुत्तरशतगुणोत्कर्षप्रदर्शनपूर्वकं ('यश्चायं पुरुषे' इति वाक्यनिर्दिष्टस्य बुद्ध्यवच्छित्रजीवरूपानन्दस्य 'यश्वासावादित्ये' इति वाक्ये आदित्यान्तःस्थत्वेन निर्दिष्टस्यं मायावच्छिन्नपरमानन्दस्य च 'स एकः' इति वाक्येनोपाधिद्वयनिरसनपूर्वकं स्वाभाविकमभिन्नत्वमुपदिश्य)ब्रह्मविदुषः

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चन ।

 इति वाङ्मनसागोचरनिरतिशयब्रह्मानन्दप्राप्तिं निरतिशयानर्थनिवृत्तिं च प्रतिपाद्य पुनः 'एतं ह वाव' इत्यादिना अनर्थनिवृत्तिम् प्रपश्य निरतिशयानन्दब्रह्मपरोक्षज्ञाने साधनाकाङ्कायां 'भृगुवै वारुणिः’ इत्यादिना भृगुवरुणसंवादमुपक्रम्य 'यतो वा' इत्यादिना ब्रह्मणस्तटस्थलक्षणपूर्वकं प्रियाय पुत्राय वरुणेन पित्रा उपदिष्टं तपआख्यं पुनःपुनर्विचारमेव ब्रह्मपरोक्ष्याय मुख्यं' साधनमुपदिश्य ब्रह्मविदस्तृप्तिगानं चान्ते प्रदर्यं उपरराम तैत्तिरीयोपनिषत् । इत्थं तया मातृवत्सर्वप्राणिहितैषिण्या प्रतिपादितं विष्णुम् स्तौति द्वाभ्यां श्रीभगवान् भाष्यकार:-

सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं
शान्तं गूढं निष्कलमानन्दमनन्यम् ।
इत्याहादौ यं वरुणोऽसौ भृगवेऽजं
तं संसारध्वान्तविनाशं हरिमीडे ॥
कोशानेतान् पञ्च रसादीनतिहाय
ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् ।
पित्रा शिष्टो वेद भृगुर्यम् यजुरन्ते
तं संसारध्वान्तविनाशं हरिमीडे ॥

-हरिस्तुतिः-हरितचमुक्तावलिः १९-२९