पृष्ठम्:तैत्तिरीयोपनिषद्भाष्यम्.djvu/३०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तैत्तिरीयोपनिषसारसंग्रहः तैत्तिरीयकोपनिषदेवं हि ब्रह्म प्रतिपादयति- प्रथमं ‘ब्रह्मविदाप्नोति परम् ’ (२.१) इति संहिताद्युपासनादिभिः एकाउंचि तर्माधिकारिणं प्रति ब्रह्मविद्यां सविषयां सफलां सूत्रयामास । “ ब्रह्म ’ इति विषयनिर्देशः‘विद् ’ इत्यनेन विद्या निर्दिश्यते, ‘ परमाप्नोति ’ इति विद्याफलं निर्दिश्यते-इति विभागः। तदनन्तरं सूत्रस्यार्थं संक्षेपतः ‘सत्यं ज्ञानमनन्तं ब्रह्म । यो वेद निहितं गुहायां परमे व्योमन् । सोऽभुते सर्वान् कामान् सह । ब्रह्मणा विपश्चितेति –अस्या ऋच उदाहरणेन व्याचकार। सत्यमित्यादि सूत्रस्थब्रह्मपद त्याख्यानम् , यो वेदेत्यादि विपद्व्याख्यानम् , सोऽश्रुत इत्यादि आप्नोतिपदद्वय- व्याख्यानामिति विभागः । ऋचोऽयमर्थः—सत्यं कालत्रयबाधाभावोपलक्षितम्, ज्ञानं स्वप्रकाशम् , अनन्तम्--अन्तः परिच्छेदः देशकालवस्तुकृतःतत्रिविधपरि च्छेदाभावोपलक्षितम् । ब्रहृति लक्ष्यनिर्देशः । सत्यादिपदत्रयं लक्षणम् । गुहायां बुद्धे यत् कारणत्वेन वर्तमानं परमं व्योम अव्याकृताकाशं, तत्र निहितं प्रति बिम्बिततयाऽवस्थितं यचैतन्यं तद्रह्मत्वेन यो वेद स सर्वान् कामान् सार्वभौमा दिहिरण्यगर्भान्तान् सह-युगपदश्रुते भुक्तं । केन प्रकारेण ?–विपश्चिता-सर्व ज्ञेन ब्रह्मणा–सर्वज्ञत्रह्मरूपेण; नोपाधिपरिच्छिन्नरूपेण । ब्रह्मानन्दे स्वल्पानन्दाना- मन्तर्भावात् , सार्वभौमादिहिरण्यगर्भान्तभोगानां ब्रह्मविस्वरूपभूतत्वात् , चैत न्यभास्यत्वाच्च ब्रह्मविदो युगपत्सर्वभोक्तृत्वमित्यर्थः । अनन्तरं ब्रह्मणः सूत्रव्याख्या नरूपया ऋचा उदीरितानन्त्यसिद्धये आकाशादेर्नाह्मण एवोत्पत्तिं कथयामास । ततः यो वेदेत्याद्युक्तं ब्रह्मणः प्रत्यक्त्वं ‘ स वा एष पुरुषोऽन्नरसमयः ’ इत्यार श्रेय देहादिपञ्चकोशात्मोपदेशक्रमेण “ ब्रह्म पुच्छं प्रतिष्ठा ' इति पुनर्विस्तरेण प्रतिपाद्यामास । ततः ब्रह्मणः नामरूपातीतस्य प्रत्यक्षाद्यविषयत्वेन असत्त्वश झायां “ सोऽकामयत ’ इति कामयितृत्वेन स्वर्गकामिवत् , “स तपोऽतप्यत १ इत्यालोचकत्वेन मन्त्रिवत्, ‘ इदं सर्वमसृजत ’ इति स्रष्टत्वेन कुलालवत् , “ त देवानुप्राविशत् ’ इति प्रवेट्टत्वेन सर्पवच्च सत्वमुपपाद्यपुनश्च ‘ को वान्यात् ’