पृष्ठम्:तिलकमञ्जरी.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला मासितद्वारदेशमनेकराजतुरङ्गशालाभिरामं कुमारभवनमकारयत् । कर्तु- कामश्च यौवराज्याभिषेकं तस्स साहायकार्थमाशाभरसहं प्रज्ञया पराक्रमेणाकारेण विनयेन वचनविन्यासेनोद्यमेनारैध त्यागशौर्य- गाम्भीर्यादिभिः प्रमुगुणैधुतानुकारमुर्वीपतिकुमारमादस्प्रेषितैः प्रणिधि- पुरुषैरनिशमुामन्वियेष ॥ एकदा च तं प्रातरेवास्थानमण्डपोपविष्टमध्यासितविकटहेमविष्टर- मुखातखरैः कृतनिरन्तरावस्थितिमिरूस्थितैराबहुपतिभिः शरीर रक्षाधिकारनियुक्तैर्वीरपुरुषैरुमयतः परिक्षिप्तमनतिनिकटनिरन्तरासीन- निभृतवल्लभराजलोकमभ्यर्णवर्तिनीभिरनवरतचामरोत्ोपचलितकलावि- काञ्चनवलयामिर्वारविलयाभिरुपवीज्यमानवपुषमुषःकालसेवागतेन सह प्रविश्य कतिपयप्रणयिमी राजसूनुना प्रणम्य सविनयमवनीतलोपविछे स पितृचरणविन्यस्तनिश्चलदृष्टिना हरिवाहनेनोपास्यमानमागृहीत- चित्रकनकवेत्रलता प्रतीहारी प्रविश्य क्षितितलन्यस्तजानुहस्तयुगला सविनयं व्यजिज्ञपत्---'देव, संप्रत्येव दक्षिणापमादागतो दक्षिण- दण्डाधिपतेर्षजायुधस प्रसादभूमिर्बिजयवेगनामा प्रधानपुरुषः सकल- पुरुषार्थसिद्धिसंपादकं देवस्य पादयुगलं द्रष्टुमुत्कण्ठितो द्वारि तिष्ठती- त्याकर्ण्य देवः प्रमाणम् ।' अवनिपालस्तु संस्मृतवचनेन तस्याः पूर्वतमालीयकमेषणवृत्तान्तमधिगतमीतिः ‘प्रवेशय' इति तां सादरमवदत् । अथ पार्थिववचनानन्तरमेव सा 'यदाज्ञापयति देव इत्युक्त्वा सत्वरमाथानमण्डपानिर्जरामोक्षणमात्रनिर्गतायां च तस्यां द्वारदेशमहितलोचनो महीपतिः प्रविशन्तमीपत्क्षामवपुषमुपरचितराज- दर्शनोचितवेषमचिरवातमपि मार्गवातातपमुष्टगात्रत्वतया मलिनमिवो- पलक्ष्यमाणमतिविदर्शनादपरिचितमिव . . परकीयमिवान्यथाभूतमित्र