पृष्ठम्:तिलकमञ्जरी.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। नुपृष्ठमाहितोचकाञ्चनपीठमीपज्जरठकुमुदगर्भदलावदातमच्छधवलधौतप- दृशुकपटाच्छादितं दन्तपटमध्यास्त । व्यपास्तसकलविहारकालकल्पित वेषः प्रक्षालितचरणपल्लवश्व परिचारकगणेन सत्वरोपसृतधृतकरक- किंकरावर्जितेन शिशिरवारिणा प्रक्षाल्य बलसंक्षोभधूलिधूसरश्रमखेद- लवलेखं मुखेन्दुमग्रतः स्थापिते मणिपतहके प्रक्षिप्य कतिपया- नुदकगण्डूषानुपस्पृश्य परिमृज्य चाभ्यग्रहस्तसाटकमाहिसत्वरोपढौ- कितेन वस्त्रपल्लवेन सहस्तपल्लवं वदनमादरगृहीतजलार्द्रतालवृन्तेनान्य- तमपरिचारकेण मन्दमन्दमुपवीज्यमानो मुहूर्तमिव स्थित्वा द्वारदेशस्ख- कटुककटुरवाकृष्टधावमानसंग्रान्तवारिकम् , उत्सारितक्लान्तपुष्पवलिन- लिनायमानकुहिमोत्सनम्, अङ्गणोपान्तपुजीभूतमूरिमुल्लानकलोकम् , औत्सुक्यतरलारालिकोणिसंचार्यमाणानेककाञ्चनस्थालीसहस्रम् , आद- रख्यास्ताक्षपौरोगवनिरीक्ष्यमाणक्षुद्रपरिजनप्रवेशनिर्गमावस्थानम् , अनि- लताडितोद्दण्डकाण्डपटकप्रस्तुताकाण्डताण्डवम् आहारमण्डपमयासीत् ॥ तत्र विविधवितीर्णविततरत्नस्थालशतशवलितक्षितितले नृपासना- सननिषण्णमिषजि संनिधापितशुकसारिकाचकोरक्रौञ्चकोकिलप्रमुख- पत्रिणि तत इतः प्रेकदरुणसुकुमारपाणिपल्लवाभिः कल्पलताभिरिव संचारिणीमिश्चित्ररलाभरणदिव्यांशुकघराभिर्वाररमणीभिरुपनीयमानम- नोभिलषितानेकमध्यपेयप्रकरो यथास्थानमुपविष्टेन प्रधानपार्थिवगणे- नान्येन च प्रणयिना राजलोकेन परिवृतः कुर्वनन्तरान्तरा सह सुहनिर्मभोजनकर्म निरवर्तयत् । उपस्पृश्य च समाप्रातधूपधूम- पर्तिरुद्वर्त्य दूरं कर्पूरमृगनाभिसंमेदसंभृतामोदेन प्राणेन्द्रियानन्दिना चन्दनद्रवेणाग्रहस्तो गृहीत्वा च ताम्बूलमप्रतिकूलमाषिमिरशेषकला- शाखकृतपरिचयैः परचितविद्भिः सुहृद्धिरनुगम्यमानो गन्धसलिल-