पृष्ठम्:तिलकमञ्जरी.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। बवाव प्रदोषवृत्तान्तमकथयत् । आदिष्टान्यतमपरिचारकोपनीतंक तं त्रिवशावासादितं दिव्यहारमहुलीयकं चादर्शयत् । तत्क्षणोपनास- परमप्रीतिभिध तैः कौतुकवशेन मुहुः कथामावर्तयदिः, मुहुः प्रभावमावर्णयद्भिः, मुहुर्धर्मसामर्थ्य समर्थयमानैः, मुहुः सात्त्विक- सामुदाहरदिः, मुहुः सत्यादिगुणगणं गृणनिः, मुहुर्महिमानमुत्कीर्त- यद्भिः, मुहुः साहसिकतामुखट्टयदिः, मुहुः पुण्यपरिणति प्रपञ्चयदिः, विसयमेरदृष्टिमिरनेकप्रकारममिनन्धमानः परां मुदमधत्त । प्रस्तुत- कभाविच्छेदे च तैः प्रवर्तितो गृहगमनाय किमपि ध्यास्वा तिर्यन्व- लितदृष्टिरनतिदूरोपविष्टमनुल्बणोदारवेषाकारधारिणं महोदधिनामानं प्रधानरबाध्यक्षमैक्षत । ससममोपसृतं च तं विनयवामनीकृतदेहायाम वामपाणिस्पृष्टवसुधातलमितरकरघृतोत्तरीयपल्लवप्रान्तमुद्रितमुखमुन्मुखे. क्षणं सादरमवदत्--'मद्र, चन्द्रातपाभिधानोऽयं हारः प्रतिदिवसमर्च- नीयानां चिन्तामणिप्रभृतीनां प्रधानरत्नानां मध्यवर्ती कर्तव्यः । भयमपि बालारुणाख्यो दिव्याकुलीयकालंकारः स्वमर्यादातिवर्तिनां दुष्टसामन्तानां दमनाय दक्षिणपथमधितिष्ठतो वज्रायुधस्य प्रस्थापनीयः। बक्तव्यश्च तत्प्रधानप्रणयी विजयवेग:-एष यामिनीयुद्धेषु विषम- शक्रसैन्यसनिरुवस्य वज्रायुधस्य पाणिप्रणयितां त्वया नेतन्यः । 'समा' इति तेनाङ्गीकृतादेशम्धोत्थाय तैः प्रधानराजलोकैः परिवृतः प्रधय॑मानकुलदेवताविशेषपूजम् अभ्यर्च्यमानमुनिजनम् आरभ्यमाण- गुरुभक्तिगौरवम् आराध्यमानचिन्तामणिगणम् आरभ्यमाणदिग्देवता- बलिकर्मक्रमम् क्रियमाणदीनानाथलोकशोकोच्छेदम् आरब्धनिर्विच्छेद- सातानिककर्मकाम्यक्रतुशालम् आगृहीतकनकभृङ्गारेण हरितकुशगर्म- पाणिना पुरोहितेन तत इतः प्रकीर्यमाणशान्सुदकशीकरम् उप-