पृष्ठम्:तिलकमञ्जरी.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला लसामर्थ्यलाभो भवति भूयतथा प्रसीद, येनाहमनृणो भूत्वा निर्वाणमधिगच्छामि । देव्यपि श्रीखेन तस्यातिमात्रकष्टायामपि दशायामनुज्झितावष्टम्मेन वचसा जनितविस्मयावलोक्य तद्वाक्य- श्रवणभावितानामभ्यर्णवर्तिनीनां सख़ीनामानन्दपुलकितानि वारंवार- मास्सकमलानि द्विगुणजातपक्षपाता प्रीतिविकसिततरङ्गवत् यतापाजस्व चक्षुषः क्षरता क्षीरधवलेनांशुविसरेण सुधारसेनेवाप्याययन्ती हिम- जलेनेव बापयन्ती मलयजाङ्गरागेणेव लिम्पन्ती मालतीमुकुलदामभि- रिवाहादयन्ती मूर्छागमविलुप्तसंझं राज्ञो वपुः पुनरवादीत्-'नरेन्द्र, बाढमविदितमत्वरूपोऽसि, तेनैवं वदसि । सर्वदा सौम्यपरिजनपरि- वाराहम् । न मे नक्तंचराः संनिधावपि चरन्ति, दूरे भृत्यत्वम् । य एष विकृतवेषाकारषारी वेतालबुद्ध्याध्यवसितस्त्वया, नायं यातुधानः। प्रधानमूतो मप्रतीहाराणां महोदरो नाम यक्ष एषः । परीक्षितुमनेन सत्त्वमप्रतीक्षितमदीयागतिना झगित्यागत्य सत्याभ्यासमिदमनेक- प्रकारमात्मीयया दिव्यशक्त्या विनिर्मितं मायाजालमखिलमपि ते प्रदर्शितम् । अतस्त्यज विषादम् । उत्सृज मृषागृहीतमिममात्मविग्रहस्य निमहविधाबापहम् । ब्रूहि चात्मनोऽमिलापम् । अनेन तव सर्वाति- शायिना सत्त्वेन साहसेन धैर्येण चित्तौदार्येण प्रज्ञाविशेषण पूजाविशेषेण निःशेषितप्रमादनिर्मलेन च ब्रतचरणेन चन्द्रमण्डलमिव शिशिरात्ययेन, मानससरस्तोयमिवागस्त्योदयेन, मुकविकाव्यमिव सज्जनपरिग्रहेण, गगनतलमिव शरत्कालागमेन, सप्रसादमपि किमपि मे प्रसादितं हृदयम् । माचक्ष्व कार्य विचक्षण, किमय ते संपादयामि। किं तावन्मदनुभावासादितदिव्यशक्तिः प्रत्यहमितो गखा गृहीतविकट- मसाधनमाद्वान्तवनितान्दपरिवृतः कनकगिरिकंदरप्रमानुलिसपादपेषु