पृष्ठम्:तिलकमञ्जरी.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमलरी। न मनुष्याः । कथं फलानि मूलान्यानं चाहरामः । अपाचराः खळ गयम् । व्याप्राणामिवासाकमात्मभुजविक्रमोपक्रीतमामिषमाहारः, वस चिन्तय प्रास्युपायम् । किमनेन कर्णोद्वेगजनकेन द्विजस्येव मदिराखा- दसौन्दर्यकथनेन भक्ष्येतरवस्तुतत्त्वप्रकाशनेन । यदि वान्येऽपि बहवः क्षुद्रसाधकाः संप्रति खलीकर्तुमुषताः खामिनीम् । तदीयदेहावयवेष्वेव सिद्धा तत्माप्तिः । आख(स्व) तावनिराकुलः । केवलं याचे किंचन । खया हि बहवः कृताः संप्रामाः, हताध संख्यातीताः क्षत्रियक्षोणी- पतयः । तत्र येन कदाचिदपि नानुभूतो भाः संगरेषु, न दर्शितं वैमुख्यमर्थिजनप्रार्थनासु, न कृतः प्रणामः प्राणसंशयेऽपि शत्रोः, तल भुवनत्रयश्लाघनीयचरितस्य नरपतेः प्रकृत्यैव पावनमतिप्रशस्त- ललितललाटलेखाक्षरमरूढच्छविच्छत्रसदृशाकारमर्पय मे कपालकर प्रत्यग्रमेकम् , यदपवर्जितरमृम्भिः पुण्यासु कृष्णचतुर्दशीषु दुर्विनीत- क्षत्रियनरेन्द्रनिहतस्य जनयितुर्जामदम्यमुनिरिव मुहुर्मुहुः करोमि तर्पणम् ।' इति ब्रुवाणं च किंचिद्विहस्य पुनरुवाच नक्तंचरं नृपतिः- 'प्रेतनाथ, नान्यथोदितं भवता । तथ्यमेवेदम् । कृताः शतकृत्वो मया संग्रामाः । हताश्च संख्यातीताः क्षत्रियक्षोणीपतयः । किं बनेकराजकार्यन्यापूततया कदाचिदकुर्वता दिव्यकार्यपर्यालोचनम्, अतीन्द्रियज्ञानविकलतया खयमनावेदितम् , अजानता परेषां हृदय- गतमर्थम् , अशृण्वता च युष्मद्विधानामत्र विषये कुतब्धिदप्यर्थित्वमुद्यम च धर्मक्रियाकल्पविषयम् , अल्पमपि न कृतस्तत्कपालानां संग्रहः । तपदि नातिमात्रमवसीदति पितृप्रयोजनम्, अनम्यर्णवर्ती वा पूर्वसूचितः पुण्यदिवसः, तत्मतीक्षख कतिचिदिनानि, यावत्कचितदवाप्तिर्भवति । अथ न सबः कालातिपातः, तदिदमेव मे खीकुरु शिरः। केवलं

-