पृष्ठम्:तिलकमञ्जरी.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। समये विनिर्गस्य देवतागृहादर्शनार्थमागतमुधिसस्थानसितं गत्वा गुरु- नं यवन्दे । विहितमध्यंदिनावश्यकविषिमापराइसमयानुसातदर्थ- नेम सर्वदर्शनप्रन्धार्थवेदिना विद्वजनेन साधै तेस्तैः कथालापैस्तसौ। उपखिते च प्रदोपसमये तेनैव विधिना श्रियः पूजोपचारं चक्रे । अन्यदिवसेष्वप्येतदेवान्वतिष्ठत् । देवकृत्यशून्ये च क्षणे समुपजातनि- पोकलिकः कदाचिदारुम क्रीडाशैलशिखरं समन्ततो दन्तदृष्टिरुबा- नवापीवनखण्डसरिचडागदेवतायतनमण्डितान्साकेतपुरपरिसरोद्देशान्द- दर्श । कदाचित्र परिमितपरिचारकानुगम्यमानः प्रमदवनमध्ये मन्दं मन्दं विजहार॥ एवं च तस्योपरतराज्यचिन्तामारस्य विरचिताभ्यर्णपर्णशालाकृत- सितेसिकाललायिनः परिमितफलाहारपरिपालितशरीरस्य कुशतस्पशा- मिनो मुनिसमुपदिष्टेन विधिना व्रतमपत्यसंततिनिबन्धनमनतिचार पालयतो गृहीतब्रह्मचर्यस्य दिवसाः कतिचिदतिजग्मुः । एकदा तु विहितमनदेवतापूर्वसेवः स राजा पर्वदिवसे विशेषेण निर्वर्त्य देव्याः भियः सायंतनीमायतनपूजामनुपलक्षितः परिचारकगणेन नगरबाचारा- ममण्डनमादितीर्थतया पृथिव्यां प्रथितमतितुङ्गशिखरतोरणमाकार शक्रावतारं नाम सिद्धायतनमगमत् । मविशन्नेव च तस्य द्वारदेशे सगिति दरदर्शनम्, अखिलविष्टपत्रयाधिपतिना ज्वलितज्वलनच्छय- जटालकुलिशकोटिकुहितकुलाचलेन भुजबलविनिर्जितबलप्रमुखदर्पिता- मुरचक्रेण भगवता खयं शकेण साकेतपुरनिवेशकाल एव कृतप्रतिष्ठस्त्र भगवतो युगादिजिनस्य कृत्वा प्रणाममभिमुखमापतन्तम्, अल्पावशेष- देवायुषमासमसमुपस्थितविनाशतया समुपजातद्वादशारुणोदयमिक १.पैमानिकमपश्यविदि शेषः.