पृष्ठम्:तिलकमञ्जरी.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। लेखाः, बहु मन्तव्यमवसानं विरलपरिजने देवतायतनवने न रतिभ- बने, श्रावयितव्यः श्रवणहारीणि देवतास्तुतिगीवानि न निजचरणनू पुररणितानि, त्वरयितव्यः सायंतनविधये सुघटितसंघिमिर्मागधी-लोकन सुरतदूतीलोकः, कारयितव्यः कण्टकिनि पत्रच्छेदविरचनं देवतार्चन केतकदले न कपोलतले।' इत्युक्ते महर्षिणा मदिरावती अपातरलतारया हृयावलोक्य पत्युमुखमधोमुखी बभूव ॥ तां च तथावस्थितां निर्वचनामधासस्ताभिरलकवल्लरीभिर्विलक्षमि- तमिवाच्छादयितुमाच्छादितकपोलदर्पणां करनखशुक्तिमिरलममपि विलेपनाहं चरणोर्मिकारनशकलेषु पुनः पुनरुल्लिखन्तीमवनतग्रीवतया सम्यगविभाव्यमानामपि तत्कालकन्दलितापूर्वशोभाकमनीयस्य मुखच- न्द्रस्य चारुतां रखकुट्टिमावलम्बिना प्रतिबिम्बेन पिशुनयन्ती पुनः पुन- स्वलोक्य कृतसितो नरपतिर्मुनिमाबभाषे-'भगवन् , किमिति वार- वारमेनां नियमयसि । नन्वेकवचसैव सर्वमवधारितमनया, प्रतिपनं च मनसा । करिष्यति चाचप्रभृति सर्व भगवदादिष्टम् । अतिदक्षिणा बसौ प्रायेणापरस्यापि मान्यजनस्य न करोति वाक्यमन्यथा, किं पुन- रशेषभुवनवन्दितशासनस्य महातपोनिधेः । करिष्यति केवलं विहाय त्रपामवलम्ब्य धैर्यमुन्मुच्य स्त्रीखमावसुलभमप्रागल्भ्यम् । अस्या अपि बुध्यते खयं वास्मन्मुखेन वा सखीवचनद्वारेण वा विवक्षितं बक्तुम् , अभ्युपगमावेदनेन च भगवतः प्रमोदं जनयितुम्, आत्मनो निर्वहणा- निर्वहणे च चिन्तयितुम् । अथ वा न किंचिदुपदिष्टेनानेन । संपति भक्षिता वनमियम् । गतायां च तत्रासामिह स्थितस्य मे निःप्रत्यूहमुफ- बातं देवताराधनम् ।' इत्यभिदधानं च पार्थिवमधिकतरमवनतानना रचितमहारसुकुटिभूषणेन साभ्यसूयेव चक्षुषा तिर्यगक्षत ।