पृष्ठम्:तिलकमञ्जरी.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमलरी। पायः । तदिदमेवानीकरोमि सारस्वतमस्योपदेशवचनम्, आराधयामि गवारण्यमुपनतशरण्यां कामपि प्रख्यातां देवताम् -इत्युत्थाय च यथाक्रियमाणं पौर्वाधिकानुष्ठानमनुष्ठायाधिरुवान्तःपुरं प्रासादमिमम- खाचित्रशालिकायाः प्राङ्गणवितर्दिकोपविष्टा समाश्लिष्य देवीमिदं सदुःखमवदम्-'देवि, स्वदपत्यसंततिनिमित्तमितो मया गत्वारण्यमा- वरमदानाद्देवताराधनं कर्तुमध्यवसितम् । यावच सिद्धप्रयोजनोऽहमाग- च्छामि तावत्त्वया शुश्रूषमाणया गुरुजनमिह स्थातव्यम्' इति । निशम्य चेदमश्रुतपूर्वमतिदुःसहं वचनमस्माकमकस्मादेव मूच्छितेयम् । उच्छन्न- संज्ञा च तिर्यपतन्ती सत्वरेणोपसृत्य धारिता परिजनेन । स्थित्वा च क्षणं समाश्वस्ता निःश्वस्य चातिदीर्घमिदमपारदुःखमारभिद्यमानगलस- रण्या गदितमनया खरेण गद्गदेन खैरम्—'आर्यपुत्र, संतानकार्यसि- ये तव प्रस्थितस्य नाहं प्रतिपन्थिनी । किं पुनरिदं विज्ञापयामि- यथा तव तथा ममाप्याराधनीया देवता । एवं च कस्मात्परित्यज्य मामेक एवं व्रजसि वनम् । अथ मन्यसे मदीयाराधनेनैव सिद्धं तवा- राघनमिति कस्यात्र संदेहः । किं विदानीं त्वमुज्झितापरान्तःपुरिका- समीहितो मत्कृते व्रतं चरिष्यसीति वचनसतैरपि न प्रत्येमि । न च त्वया विरहिता मुहूर्तमपि स्थातुं शक्नोमि । तदवश्यं मयापि गन्तव्य- भरण्यम् । अवमन्य चेद्गच्छसि मां गच्छ । सिध्यतु तवाभीष्टम् । दृष्टस्त्वमधुनैव ।' इत्यभिदधाना ललाटविलुलितविशृङ्खलालकपद्धतिरघो- मुखीभूता भूयोऽप्यनुबध्यमानया च निषिध्यमानया च निःशब्दमव- जिताब्दजलपारेरशुचारैः समूहै रुदितमनया, न पुनः किंचिदुदितम् । तदियमस्थान एवात्मानुगमनेन कुर्वती मे गमनभर, भगवतोऽपि युज्यते १. "च्छि' इति स्वात.