पृष्ठम्:तिलकमञ्जरी.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२८ काव्यमाला। कन्दराकच्छेषु, कदाचित्प्रियंवदानेहमोहितेन सिंहलराजसूनुना तिलकमञ्जर्या च साश्चर्यशोकमवलोक्यमानपश्चिमजिनायतनशिल्पक- िितशयेष्वयन्त्रितभ्रान्तदेवयात्रागतनभश्चरद्वन्द्वेषु रत्नकूटाद्रिकटकेषु रममाणः, कदाचिच्च सोत्कण्ठाकाञ्चीपतिसुतावचनेन विद्याधरैरानीत- मनभिनन्दितान्यनृपकुमारपाणिग्रहणमम्बुधिनिपातदर्शनोपजातानुकम्पेन खस्थानेषु नीतं महोदरेण समरकेतोः कलत्रभावमानयन्पूर्वदृष्टमवनी- पालबालिकावृन्दम् , कदाचिदादिष्टखेचरानीतं नवविमानमध्यारोपितस्य मुक्तिसुखवाञ्छया विमुक्तसर्वारम्भनिभृतस्य गलितवयसो गुरुजनस्य गत्वा गत्वा प्रसिद्धसिद्धायतनमण्डलीमण्डितानि दर्शयन्ननेकसुरसिद्ध- साध्यसंवद्धानि तीर्थस्थानानि, कदाचित्काञ्चनाचलशिरसि भक्तिरसनि- भैरेण महाप्रमाणमणिकुम्माहतैः क्षीरसागराम्भोभिः सुरगणेन निर्वर्तित- मनारतनिशम्यमाननिरवद्यवृन्दारकवृन्दगीतनाट्यं विलोकयञ्जिनजन्म- महोत्सवम् , एकहेमासना|पविष्टया मुहूर्तमप्यरहितान्तिकस्तिलकम- अर्या दिनान्ययापयत् । असंप्राप्तविप्रयोगस्य चास्य प्रणयिनीसमेतेन साकं समरकेतुना सपत्नीपरिवारस्य तेषु तेष्वतिरेकरम्येषु सागरकूल- वलयेषु कुलपर्वताप्रेषु पूर्वापरविदेहविजयेषु वर्षान्तरगिरिगुहागहरेषु महादसरिचीरपालीपुलिनपरिसरेषु द्वीपान्तरत्रिदशनगरनिवेशेष्वन्येषु च मनोरमोद्देशेषु दिशि दिशि व्योमचारिणा मणिविमाननिवहेन विचरतः पृथिव्यामनुदिनमुपचीयमानपौरुषप्रतापकीर्तेरचिस्कन्द परमा वृद्धिमानन्दः॥ इति श्रीधनपालविरचितं तिलकमारीकथानकं समाप्तम् ।