पृष्ठम्:तिलकमञ्जरी.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तनयनयुगला युगपदागतेन सकलमुवनान्तर्वतिनेवातिभूरिणा दुःखसं- भारेण निर्मराध्मातहृदया हादिन्येव कृतपरिष्वङ्गमुद्वहन्ती मूर्छास- मालिङ्गितमङ्गमुत्सदेशे मलयसुन्दर्याः पर्यास्थत् । अथ समाश्रितेन श्रवणपथमवबोधिता बुद्धिमतेव पटुना चटुलचेटी- चक्रवालाक्रन्दितेन संवृताकारा स्वस्थहृदयेवोत्थाय सर्वायतनपूजार्थम- न्तिकस्थं परिवारलोकं प्रावर्तयत् । आत्मना च निर्वर्तितनाना विधृत- पुष्पधूपाङ्गरागपटवासपटलकेन प्रणयिनानुगम्यमाना प्रमदाजनेन प्रवि- श्य मूलायतनमच्छतापहस्तितशरच्छशधरगभस्तिमिः खहस्तपर्यामि- वैरमलमणिकलशवारिभिः कृताभिषेकमभ्यर्च्य परमया भक्त्या परमगुरु- मुपरचितकरसंपुटा प्रणम्य च पुनः पुनः 'प्रणतवत्सल, सकललोका- लोकगोचरज्ञानालोक, भव्यलोकशोकापनुद, दर्शितदयादमप्रधानध्यान- मार्गमुद्रिताशेषदुर्गतिद्वार, झगिति विस्मृताकृत्रिमतापसोपचारस्य दूरीक- तानुरक्तजनसन्निधेरणुवज्रपाषाणपरुषहृदयस्य दुर्विदग्धबुद्धेरनेकदुःसह- दुःखसंभारभाजनस्य भगवन्', तव जनस्यास्य जन्मान्तरे शरणम्' इत्य- भिधाय बाप्पायमाणनयनयुगला प्रत्येकमापृच्छय परिवारलोकमच्छिन्न- रोदनोच्छूनचक्षुषा परिहतसुहृहन्धुशिशुजनेन शोकविद्राणमलिनमुख- रुचा मलयसुन्दरीप्रमुखेन सहिता प्रियसखीसार्थेन प्रतिपन्नमरणप्रसा- धनेन च प्रणयिना पण्यनारीगणेनान्येन च प्रगुणमनसा गुणानुरक्तेन बाह्यपरिजनेनानुगम्यमाना गुरुतराक्रन्दनिष्पन्दमनुपदमप्रतोभूय कृत- वारणानुबन्धमवधूय सर्वतो गृहीतवाक्यं राजलोकमायतनमण्डपा- निरक्रामत् ।

क्रमेण चामिलष्य सलिलप्रवेशं प्रखिता सत्वरैः पदैः पूर्वदृष्टमेवाह-

टपारसरसो मार्गमागच्छत् । अत्रान्तरे परिजनावेदितसुतामरणवृता-