पृष्ठम्:तिलकमञ्जरी.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमारी। यमाणा दिशि दिशि भवन्तमवसितेऽहनि मलयसुन्दरीपरिगृहीतं प्रापदायतनम् । अवतीर्य च प्रविष्टा तदङ्गणनिविष्टमन्विष्य दिनम- खिलमचलाटवीमध्यादुपागतमदृष्टखामिदुःखक्षाममक्षम हिया पराधु- खेक्षणं युगपदुत्थाय विहितप्रणामां सकरुणमीक्ष्यमाणां कुमारपरिचार- कगणं प्रणम्य दूरस्थितैव परमदेवमवलम्बिता मलयसुन्दर्या मठाप्रभू- मिकां शनैःशनैरध्यारोहत् । तत्र च क्षितितलास्तीणे तनीयसि वसन- तस्पे निःसहन्यस्तदेहा निजोत्सद्भनिहिततनुसरलजङ्घाकाण्डया मुहुर्मुहुः पीब्यमानचरणपिण्डिका, शरीरसंवाहिकया दिग्विसारिणो दाहज्वरो- प्मणः स्पर्शमसहमानाभिरिव दूरस्थिताभिः सहचरीभिः पाणिसंज्ञया निवार्यमाणवाचालपरिजनालापा, रजनिपरिणतिप्रमाणमवगन्तुमपरदि- सुखानुसारिणि हरिणलाञ्छने मुहुर्मुहुन्धस्तनयना, बाष्पकणविसरम- सृजन्ती समीपास्तीर्णवल्कलशयनया वारंवारमावास्यमाना, दीर्घनिः- श्वासया मलयसुन्दर्या देवमुद्दिश्य तानि तान्यसंबद्धानि चिन्तयन्ती, विनिद्रनयनकुवल्या प्रतिकलमापतन्तीमिरुत्कलिकाभिरायास्यमाना, सार्धमारामदीर्घिकानीलनलिनीभिरायामिनी कथंचिदपि यामिनीमन- यत् । उपसि चोत्थाय विहितावश्यका निविश्य देवाणविताकार्या द्रष्टुमायातमपि 'वेत्ति कश्चिदतिकान्तदिनवृत्त कुमारवृत्तान्तम्' इति परिग्रहलोकमप्राक्षीत् । अथोपसृत्य किंचिम्लानवदनः संदीपनो नाम विधारधरयुवा प्रणम्य शनकै जिज्ञपत्—'देवि, चित्रमायप्रेषितेन प्राक्तनेऽहनि मया निपुणमन्विष्यता निषादलोकादुपलब्धमेतत् यथा किल सहाय- विकलः सार्वकामिक विजयार्थपर्वतस्य प्रपातशिखरमारूतः कुमारः । परतस्तु न कचित्किचिदवगतम्' इति वाण एव तत्र देवी निमीलि.