पृष्ठम्:तिलकमञ्जरी.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। विपर्ययस्य । किं तातेन मद्वियोगाधिगतवैराग्येणारण्यगमनमारब्धम् , किमम्बया कृतो मद्दर्शनावधिराहारपरिहारः, किमन्यस्य कस्यापि महुः- खदुःखितस्य जनस्य दुर्जातं जातम्' इति प्रवदन्तीमेव तां प्रविश्य सत्वरा वेत्रधारी व्यजिज्ञपत्---'भर्तृदारिके, संप्रति निजप्रस्थानसमये 'भद्र, गत्वा पुनरपि प्रापय कुमारहरिवाहनं निजस्कन्धावारम्' इत्या- दिश्य यस्त्वया प्रणुनः, स विषण्ण इव चित्रमायः प्रवेष्टुमिच्छति' इत्यावेदिते तया सहसैव साध्यसध्वस्तवचना विमुक्केव जीवितेन देवी न किंचिदुत्तरमवदत् । केवलं विशालायताभ्यामक्षिपत्राभ्यां तत्क्षणप्र- प्रवृत्तं सरलोष्णनिःश्वासधूपितमधरपत्रमिव निर्वापयितुमश्रुधारायुगं युग- पदमुश्चत् । अथ मोचितो मलयसुन्दा प्रविश्य स कृतप्रणामः प्रावोचत्- 'भर्तृदारिके, त्वदादेशसमकालमेव गत्वैकशङ्गे समन्तात्कुमारहरिवा- हनो मयान्विष्टः, न तु कापि दृष्टः । तथापि तद्वृत्तान्तमवगन्तुं च नियुज्य निजविद्याधरानागतोऽहम्' इति निशम्य देवी दीर्णहृदया हदि प्रदीप्तस्य सहसा शोकबहेरूर्ध्वमुत्सर्पता धूमपटलेनेव कवलितमु- द्वहन्ती मलिनविच्छायमाननमधिकमुपजातवैलक्षा मलयसुन्दरीमुखे चक्षुरक्षिपत् । सापि संतप्तचेतोवृत्तिरपि 'यदृच्छाकारिणि, वन्मूलोऽ- यमस्य महात्मनो राजपुत्रस्यानर्थलाभः । त्वरितमुत्तिष्ठ । स्थिता तावद- धुना तीर्थयात्रा । यावदद्यापि दूरं न गच्छति कुमारस्तावदन्वेषय ख. यमेव गत्वा । महदनिष्टमाशयति मां तददर्शनम् । त्वद्गमनवार्ताल- वणदुःखितोऽसौ न जाने किं व्यवस्यति' इत्यभिहिते तया ससंभ्रम- मुत्थाय सा किंचिदुत्पतितमन्थरे सिरीकृत्य विद्याधरैर्विधृतमनिलन- तितविचित्रमध्वजमविरुष मणिविमानं प्रचलिता गगनमार्गेण मृग-