पृष्ठम्:तिलकमञ्जरी.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ काव्यमाला। हर्षिसमुचितसमस्तोपचारश्च तं गुरुमिवाधिदैवतमिवोपास सुचिरमास्य- निहितनिश्चलचक्षुरवनीतलोपविष्टः सप्रश्रयमुवाच-'भगवन् , एष तावदभ्रंकषाप्रशिखरस्तुषारगिरिरिव गङ्गासोतसा गगनमण्डलादवतीर्य मुनिगणमाननीयेन गुरुतां परामारोपितः प्रासादस्त्वया । तदनु सर्वतः कृतावलोकन सच्छशिशिरैः शान्त्युदकशीकरैरिव दृष्टिपातैर्दूरीकृतो दुरितराशिरस्य समग्रस्यापि नगरीनिवासिनो मत्परिग्रहस्य । प्रणामस- मये च मूर्धानमधिरोपितेन प्रकृतिपूतेन निजपादपांसुना संपादितमखि- लतीर्थस्वानफलम् । एवं च सामान्येन सर्वतः समुपजातमध्यसंजाततृ- विरधिकतरकल्याणसंपल्लाभाय भगवता क्रियमाणमिच्छाम्यात्मनो विशेषेणानुग्रहम् । इदं राज्यम् , एषा मे पृथिवी, एतानि वसूनि, असौ हस्त्यश्वरथपदातिमायो बायः परिच्छदः, इदं शरीरम् , एतद्व्हं गृयता स्वार्थसिद्धये परार्थसंपादनाय वा, यदनोपयोगार्हम् । अर्हसि नश्चिरान्निर्वापयितुमेतज्जन्मनः प्रभृत्यपटितानुरूपपात्रविषादविक्लवं हृद- यम् । इति ब्याहरन्तं च तं समुपजातहषों महर्षिरुवाच–'महाभाग, सर्वमनुरूपमस्य ते महिमातिशयतृणीकृतवारिराशेराशयस्य । केवलम- मूमिर्मुनिजनो विमवानाम् । विषयोपभोगगृनवो हि धनान्युपाददते । मद्विधास्तु संन्यस्तसर्वारम्भाः समस्तसङ्गविरता निर्जनारण्यबद्धगृहबुद्धयो मैक्षमात्रभावितसंतोषाः किं तैः करिष्यन्ति । ये च सर्वप्राणिसाधारण- माहारमपि शरीरवृत्तये गृहन्ति, शरीरमपि धर्मसाधनमिति धारयन्ति, धर्ममपि मुक्तिकारणमिति बहु मन्यन्ते, मुक्तिमपि निरुत्सुकेन वेवसाभिवाञ्छन्ति, ते कथमसारसांसारिकसुखप्राप्त्यर्थमनेकार्थहेतुमर्थ गृहन्ति । परार्थसंपादनमपि धर्मोपदेशदानद्वारेण शास्त्रेषु तेषां सम- वितम् । नान्यया । तदलमत्र निर्बन्धेन । कथय तावत्केयमुपहसिता