पृष्ठम्:तिलकमञ्जरी.pdf/४२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। यथाखमारोपितप्रमाणवर्णोत्कर्षामिभविष्यतां जिनवृषाणामप्रतिमरूपा- भिर्मणिप्रतिमाभिरध्यासितोदराणि वन्दनमालाविविधरनपाषाणविरचि. तानि चैत्यायतनानि स्थानस्थानेषु नमस्यन्ती समाधिस्थितमुपागतं द्वीपा• न्तरेभ्यो यदृच्छाचारिणं चारणश्रवणमितस्ततः प्रस्तुतविहारविपुलशु- चिशिलातलोपविष्टमवनिधरकटकबन्धावन्यतमसिद्धायतनमण्डपेन चिर- संजातकालत्रितयगोचरज्ञानलाममन्तिकासीनसविनयसिद्धविद्याधरमाद- रोत्सृष्टकुसुमवृष्टिभिस्त्रिविष्टपसंसद्भिरारब्धसद्भूतगुणगणस्तोत्रमपगतवि- पादहर्षमेकं महर्षिमद्राक्षीत् । उत्पन्ननिर्वेदा च तद्दर्शनेन प्रणम्य तमसौ समं प्रणयिलोकेन निकटे न्यविक्षत । निविष्टां च तामनिमिषदृष्टिमाविष्टामिव कृतप्रश्नस्य परिषजनं वर्जयति, दासोऽपि खामितामेति, मुखितोऽपि दुःखमा- मोति, कल्पोऽपि दौर्बल्यमधिगच्छति । तथा च लोकपालः कीना- शोऽपि धनदत्वमाश्रयति । धनदोऽपि पुरुषः कीनाशतां प्रतिपद्य काक- णीमपि न ददाति । सकलवेदविविजोऽपि मातङ्गजातौ जायते । मन्दालसगतिर्मातशोऽपि गत्वा द्विजत्वमनिलवर्मना सर्वतः संचरति । रूपवानपि कुरूपों भवति । कुरूपोऽपि तेजोमयं कायमास्कन्दति । किं च शब्द इव संस्कृतोऽपि प्राकृतबुद्धिमाधत्ते । प्रसिद्धपुंभावोऽपि नपुंसकतया व्यवहियते । सर्वदा स्त्रीलिङ्गवृत्तिरपि पराथे प्रवर्तमानः पुंस्त्वमर्जयति । एवं च सामान्येन सर्वेष्वनियतखमावेषु जन्तुषु कुतू- हलमपि न संभाव्यते । दूरे तावदाश्चर्य यदि तु जिज्ञासता पुरुषवि- द्वेषादिषु विशेषकारणान्यमुष्याः कृतो देवानांप्रियेण प्रश्न एष ततो युक्तमाकर्णय । तान्यपि निरूपयामि । अस्ति निजविलासहसिता- १. मूखण,