पृष्ठम्:तिलकमञ्जरी.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४: काव्यमाला। दरमलिनजीर्णचीनवाससा चिरप्रोषिताङ्गरागपरुषालावण्येन वेषग्रहणेन सोद्वेगमिव शक्यमानमतिकृशत्वादशनुवद्धिरिवोद्वोढुमवयवरनूढहारके- यूरकटकादिभूषणबातमापतन्तमभिमुखं गन्धर्वकमपश्यम् । दर्शनेनेव तस्थ समाविततिलकमञ्जरीजीवितावस्थस्वास्थ्यमगमम् । सोऽप्यचि- न्तितोपगतया नभश्चरचक्रवर्तिलक्ष्म्या समुपगूढमुद्वीक्ष्य मां क्षणमात्रं जातविस्मयः मिताचक्षुषा सप्रसादम् ‘एलेहि' इति समुपहूतो मया शोकविकलपरिस्खलद्रतिरागत्य समुन्मुखमवाअखं क्षोणितललुलितमूर्ध- जेन शिरसा प्रणाममकरोत् । अनिमेषविद्याधरपरिषदवलोकितश्च निश्च- कमवस्थाप्य ललाटमङ्गिपीठे हठनिरुद्धदुर्धरमन्युवेगोद्गमश्चिरवियोगवि- स्मृताकार दिदृक्षया क्षालयितुमिव मच्चरणयुगमविश्रान्तमीरितैरश्रुधा- सम्भोभिरुच्छ्स्योच्छस्य दीर्घमनुदीरितध्वनिररोदीत् । उदीर्णकरुणेन च मया परामृश्य पृष्ठदेशे पुनः पुनः करतलेन सस्नेहमुत्थापितः शनैरुन्न- मय्य परिमृज्य चोपरि वस्त्राञ्चलेन वदनमग्रतः क्षितितले न्यविक्षत । विरतशोकचासमोक्षस्य चास्य मुहूर्तमास्थाय कृतमुखेक्षणः क्षीणाक्षरम- पृच्छम्-~-'गन्धर्वक, त्वदवलोकनानुमितजीविताया अपि कुतश्चिदुप- जातशहः शनोमि न प्रवृत्रि प्रष्टुमादरेण देव्यास्तिलकमञ्जर्याः । खयं कथय यत्तदावृत्तम् , यच्च वर्तते संप्रत्यमुष्याः, यत्र चासौ यध्या- पारा दिनान्यतिवायति । त्वमपि किंनिमित्तमत्रायातः' इत्यभिहितो गन्धर्वका खित्वा क्षणं क्षितितलन्यस्तदृष्टिराख्यातुमारमत---'देव, श्रूयताम् । तदानीमदृष्टपारतीरावासितेन देवेनादिष्टमात्र एव गत्वा सदाभरणद्वयं भर्तृदारिकयोरपि यथोद्दिष्टमत्यसनम् । अवदं च- 'वनदुर्गादुपागतस्य कौशलिकमेतत्कुमारस्य । श्रुत्वा चेदमानन्दनिर्मरा मलयसुन्दरी सादरमादाय सहिन्यरलालीमकं दक्षिणकरालीमूष--