पृष्ठम्:तिलकमञ्जरी.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी । १०३ मां विमानमारोप्य पुरतः खयंकृतसमुत्सारणकनकदण्डाश्चण्डगहराख्यं विजयागिरिशिखरमनयन् । अभिषिच्य च क्रमेण प्रभूतमणिकुम्भाहृतैः सरित्सागराम्भोभिरुत- रश्रेणिराज्ये निरन्तरावर्जितशिरःसंघट्टविघटितकिरीटवेदिका युगपदा- नेमुः। आसीनं च मामखिलदिङ्मुखख्यातपृथुपराक्रमस्य सिंहासने विक्रमबाहोघृतोत्कृष्टवसननग्विलेपनालंकारमुपरि विस्तारितोद्दण्डधव- लातपत्रमुभयतश्चलितचारुचामरचक्रवालमानन्दवाचालचारणोच्चार्यमाण- चिरंतनसंतानपुरुषसच्चरितमूर्धस्थितेन बिभ्रता नवानीलादप्रकिरणमा- लाकरालितककुभि करवालरलानि रचितपरिवेषेण भीमाभिरामवपुषा पौरुषेयेण प्रकामाधृष्यमभिषेकमण्डपाभ्यन्तरनिविष्टमासनोपविष्टमनि- मण्डलल्यापारितः पुरुदंशा नाम राजनैमित्तिको राजधानीपुरप्रवेशाय शनकैय॑जिज्ञपत् । अहं तु तिलकमरीविरहविक्लवेनापि मनसा सम्यगवधार्य संशि- तासन्नगुणवद्दिवसलमस्य तस्यालापमन्यतो वलितवदनसमीपस्थमास्थान- लोकमप्राक्षम्—'अयि, वेत्ति कश्चिदधुनातनं चक्रसेनराजकुलवृत्ता- न्तम्' इति । अथ पुरोवर्ती प्रधानद्वारपालः प्रणम्य सविनयमब्रवीत्--- 'देव, संप्रत्येव दक्षिणश्रेण्याः समागतोऽत्यर्थमर्थी दर्शने देवपादानां नितान्तरमणीयाकृतिः 'भद्राः, किमर्थमकाण्ड एव विधृतो वृथैवाहम् । उत्सृजत मान्' इति प्रत्येकमभ्यर्थनां कुर्वन्द्वारपालानामेको द्वारि दार- कस्तिष्ठति, स ज्ञास्यति कदाचित् । ततोऽहम् 'कोऽयमायातः' इति कृतविमर्शः खित्वा मुहूर्तम् 'आशु प्रवेशय' इत्यवदम् । अथ तेन गत्वा सत्वरेणाइतमेकैकमणिपवित्रिकामात्रकर्णाभरणमनुपयुक्तताम्बूलध- सराधरलेखमुल्लिखितामदशनश्रेणिना दूरीकृतकुसुमधूपादिकेशसंस्कारेण