पृष्ठम्:तिलकमञ्जरी.pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। परमकारुणिकश्च न प्रार्थितो वचनमन्यथा करिष्यति । निश्चितं च मयैतदष्टापदकृतास्पदमुपास्य मुनिवृन्दमयैव समागताद्वीरसेनादिविद्या- घरगणादवगततदीयपूर्वभववृत्तान्तेन तदपास्तसंशयः प्रवर्तस्त्र येनोपा- त्तविद्यमानीय सादरमेनमासने देवस्य विक्रमबाहोर्निवेशयामि । ततो 'यदादिशत्यमात्यः' इत्युदीर्य तत्क्षणमेव चलितः प्रासादशिखरावतीर्ण- मुद्विममेकाकिनममार्गेणापतन्तमभिमुखं प्रपातस्य दृष्ट्वा भवन्तमालोचितो- पायः प्रयुक्तविद्याप्रदर्शितेन परस्परानुरकदंपतीमरणचेष्टितेन विद्या- साधने योजितवान् । तदलमनेन मिथ्यागृहीतेन परसत्त्वोपकारकरणा- भिमानेन । सन्मानयैनमनुरागतः खयमेव समागतमसदृशात्मीयसाहस. वशीकृतं प्रधानविद्यासमाजम् । कुरु महामत्रिणः शाक्यबुद्धेः सफल- मायासमनुभवोत्तरश्रेणिसमभिः खेचरनरेन्द्रैः प्रवर्तितमलभ्यमल्पपुण्यैः पुंभिरन्यैरतिप्राज्यवैभवं राज्याभिषेकम् । भव पृथिव्यामेकचक्रवर्ती । समाश्वासय श्वा(खा)मिविरहविक्लवाः प्रतिग्रामनगरमज्ञातपरचक्रविप्लवा पौरजनता । जनय जातरतिमेनमप्यनगरतिरतिमङ्गीकारेण । मुध निष्कारणमिमं च मरणाध्यवसायम् । सहायीभूतविद्यस्य दैवादुपागतः सोऽपि संप्रति विरंस्पति तव प्रणयिनीमित्रविरहः । यतः--- क्षुण्णोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः। इति विमृशन्तः सन्तः संतप्यन्ते न विधुरेषु ॥' इत्युदीर्य तत्रान्तर्हितायामकस्मात्तुलितकल्पान्तचलितसप्तार्णवीसलि लकल्लोलकोलाहलः कवलयन्निव त्रिदिवपातालान्तरालमुल्ललास नमसि गम्भीरमरखो दिव्यमेरीरवः । स्फुटविमुक्तभूरिमांकृतेन तेनेवाकारिताः समाजम्मुरखिलाशामुखेभ्यः प्रस्तुतसविस्तरस्तुतिवादमुखराः खेचराषि- पतयः । प्रविश्य च तत्र पातालमवने विनषवाममाः प्रयापविमुखमषि