पृष्ठम्:तिलकमञ्जरी.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९८ काव्यमाला। मुखीभूय भाषितवान्—'एष कथयामि । आकर्णयत्वार्यः । इहास्ति पर्वतवरे समीप एवास्य चण्डगहराच्यविद्यासिद्धिशिखरस्य क्षुधित- कालरात्रिकुक्षिकुहरकरालकन्दरः संहारो नाम सार्वकामिकः प्रपात- सानुः । तत्र पिपतिपुरनगरतिनामा विद्याधरः शिशुरेवागत्य दुष्टदाया- दैवष्टब्धास्पदो निर्वेदेन प्रस्थितोऽहम् । इयमपि नवमुखा निवारि- ताप्यादरेण मामेवानुगन्तुमुच्चलिता । मुञ्चती च जीवितमिमां द्रष्टुम्- सहः पुरस्तादेव गत्या मोक्तुमहमिच्छामि देहम् । असौ तु जीवत्येव मयि मर्तुमुसुत्का भनक्ति मे गमनमेभिः प्रकारैः' इति निवेदिते तेन करुणया विस्मृतात्मदुःखः पुनरपि तमनवम्---'बालक, किमर्थमशेष- पुरुषार्थसाधके वयसि वर्तमानः प्रेमपरतत्रमीदृशमिदं कलत्रमात्मानं च निःकारणमेव करणैर्वियोजयसि । यद्यभिलपसि भोगांस्तदधुनैव गत्वा प्रतिगृहाण मे राज्यम् । अथान्योऽभिलाषस्तस्यापि साधने सिद्धः खशक्त्याहम्' इत्युक्ते मया मुदितचेताः स पुनरप्यवोचत्----'आर्य, तिष्ठतु सर्वसत्त्वोपकारक त्वय्येव तावकं राज्यम् । यदि तु सत्यमेवा- नुकम्पसे मां तदेतत्कुरुष्व । अस्ति मे गुरुपरम्परागतः सकलजगदा- धिपत्यदायी प्रधानदेवतापरिगृहीतः समस्तमन्त्रग्रामणीरसाधारणगुणा- धारपुरुषसाध्यो मनिवहः । तदाराधनेन लब्धाधिकपराक्रमः क्रमा- र्जितं सत्त्वमिवात्मपोतस्य मृगपतिर्वितर मे राज्यम् ।' तच्छ्रुत्वा कृता- भ्युपगमोऽहं तेन विधिवदाख्यातनिखिलमत्रेण शिक्षिततदाराधनकर्मणा दर्शितमदृश्यसूर्यचन्द्रमःप्रकाशमल्पावकाशोदरमतिगम्भीरमवनिधरगह- रमगच्छम् । तस्य चाधस्तादपास्तनिश्चलशिलापिधाने दुरुपलक्ष्यसूक्ष्म- द्वारि पर्यन्तरूढप्रौढभूसहि रसातलगृहे प्रविश्य निगृहीतचेताः सततम- मियुक्तेन द्वारदेशाभ्यासवर्तिना वितीर्णपुष्पधूपानुलेपनेन प्रतिपन्नसाचि-