पृष्ठम्:तिलकमञ्जरी.pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। इहैव मणिकरण्डके कुण्डलीकृत्य पुनरपि क्षिप्तेन किं फलमनेन । अनेन च शुफच्छदश्याममरकांशुवर्षिणा बहिषेवोद्भिनिनवपत्रेण दिव्याङ्गुली- येन द्विगुणपवित्रदक्षिणकरकमला मलयसुन्दरी यथा देवतार्चनकर्म निर्मापयति शश्वत्तथा विधत्ख' इत्यभिधाय तं प्राहिणवम् । अन्येधुश्च प्रातरेव खावासहम्योपरिस्थः प्रेक्षमाणो मार्गमागमिष्यतो गन्धर्वकस्य विहायसाभिमुखमापतन्तीमखस्थचित्तामिव चतुरिका- मद्राक्षम् । 'किमियमेकाकिनी विना मलयसुन्दर्या समागता' इति चिन्तयत एव सा समीपमागच्छत् । सहासमाभाषिता च मया प्रणम्य निकटे न्यविक्षत । स्थित्वा च कंचित्कालमवचना विलोक्य पार्धानि शनकैरभाषत-'कुमार, यदैव भर्तृदारिका महाभागेन सहानीता निजगृहं देव्या तिलकमचर्या, तत एवारभ्य तत्रैव स्थिता- हमेतावन्त्यहानि तस्याः कुर्वती चरणपरिचर्याम् । अद्य तु तदादेशा- दिहापतन्ती समाहृय रहसि बाप्पायमाननयनारविन्दया विनिश्वस्य वारंवारमतिदीर्घमाजापिता देव्या-भद्रमुखि, यत्रैव प्रस्थिता त्वं तत्रैवाधुना कृतस्थिरावस्थितेः कुमारहरिवाहनस्यायमर्पयितव्यः' इत्युक्त्वा पुरस्ताल्लेखमक्षिपत् । अहं तु तत्क्षणोपजातवामाक्षिस्पन्देनानिवर्त्य तद्ब्रहणाय पुरतः प्रसा- रितं दक्षिणपाणिमतिवाघ च क्षणमेकमखस्थेन चेतसा गृहीत्वा शनैस्त- मवाचयम्--'खस्ति । एकशृङ्गाचलक्षतावास महाराजपुत्रश्रीहरिवाहन- मुदीर्णदुरदुःखा तिलकमञ्जरी दूरानतेन मूर्धा प्रणम्य विज्ञापमति- आश्लिष्य कण्ठममुना मुक्ताहारेण हदि निविष्टेन । सरुषेव वारितो मे त्वदुर-परिरम्भणारम्भः ॥ तथापि त्वदधीनजीविताहमिह स्थिता तीर्थान्तरगता बा यावत्रा-