पृष्ठम्:तिलकमञ्जरी.pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ काव्यमाला। चलितस्तकालमेवागतविसृष्टेनापतोयायिना चित्रमायेन निर्दिश्यमान. सरणिरागत्य पर्वतारण्यमिदमवस्थाप्य निकषानदी परिच्छदमशेषमु- सुकत्वानिवर्तितसहाय एवमायात इति निगद्य गमनाय मां पुनः पुनरतत्वरत् । ततोऽहमुत्थाय तस्मात्प्रदेशादात्मपरिवारसहितः सरित्परिसरादागतेन प्रणम्य परिवृतो विद्याधरगणेन संभ्रान्तकिंकरकलापोपनीतमारुह्य देव्या विसर्जितं निजयात्राविमानमन्तिकस्थितेन विविधाभिः कथाभिः पथि विनोद्यमानः सगर्व गन्धर्वकेण क्षणेनैव मलयसुन्दरीकृतसमाश्रयं दिन्यमाश्रममुपागमम् । तत्र चादृष्टपारपरिसरनिरूपितावासः सतत. माज्ञाकारिभिश्चित्रमायमुख्यैः खेचरभटैलौहित्यतटवासिनः स्कन्धावारा- दनिशमानीयानीय संवाद्यमानसकलप्रार्थितार्थों यथोत्तरं प्रथितपृथुतरा- नुरागया नभश्चरेन्द्रसुतया विसर्जितैः खादुफलरसैरासवविशेषैः सन्दाम- भिविलेपनैस्ताम्बूलैर्दुकूलै रत्नभूषणैश्च कल्पद्रुमसमुत्थैः प्रतिदिनं प्रवर्ति- तोपचारः, कदाचिच्च बहुविकल्पैश्चित्रकर्मपुस्तपत्रच्छेदादिभिः शिल्प- भेदैरापाद्यमानविस्मयः, कदाचिस्प्रश्नोत्तरप्रवहिकायमकचक्रबिन्दुमत्या- दिभिश्चित्रालंकारकाव्यैः प्रपश्चितविनोदः, कदाचिखसंदेहनिर्णयाय प्रेषितैः प्रकर्षवद्भिः सह कलाचायः कृतोश्चावचविचारः, कदाचित्सह- चरीमुखेन रसमुचः खकाननोपजाता वृक्षफलजातीः [आखाद्यमानः, कदाचिच्च शृङ्गारसंगतकथाप्रपञ्चसंबद्धाः सूक्तीः सानुबन्धमुपजातमानः, कदाचिददृष्टपारसरः खानावतीर्णया प्रस्तुतपरिहासमेव वारंवारमीरिता- मि(रस्थितोऽपि खच्छशिरोभिरम्भश्छटाभिरिव कटाक्षवीचिभिराच्छाद्य- मानः, कदाचिसर्वदिवसे निविश्य पुरतः पुरातनमुनेरादिनाथस्य विस्ता- रितानच्छतानमूर्छनमुपेत्य निकटोपविष्टैः श्रुवानन्दानुमिः श्रमणो-