पृष्ठम्:तिलकमञ्जरी.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० काव्यमाला। लमक्षिका इवाम्राजन्त सौधाअवलमीशातकुम्भस्तम्भाः । काञ्चीराज- दुहिता तु चेतसा चिन्ताहतेन दुरापास्तदेहादुस्तरचितेव निभृतनिस्त- रगावयवा खित्वा मुहूर्तमेकशृङ्गाद्रिगमनाय देवीं तिलकमञ्जरीम- पृच्छत् । सा तु देवस्य गमने दृढोद्विमचिचा तां विना विनोदयितु- मन्तःशुचमपारयन्ती 'अत्रापि सखि, समुच्छ्रितानेकशृङ्गस्त्वदेकशृङ्ग- स्पृहामपहरति मक्रीडादिः । इहापि खेच्छया स्वच्छविपुलानि समुप- लभ्यन्ते सानयोग्यानि कृत्रिमापगासलिलानि । अस्मिन्नपि कमल- पुष्करिणीतटेषु निर्वहति निर्विबाधो ध्यानजपविधिः । अत्रापि प्रमदवनकच्छेषु सुलभः कन्दफलमूलादिराहारः । किमधिकम् । तत्र गता साधयिष्यसि समाधिमथवा खयं दर्शयामि' इत्यभिदधाना समाकृष्य तां बलादुपरितनवल्कलाञ्चले परिस्खलच्चरणयुगला निजो- धानमनयत् । तत्र च पुरःस्थिता तद्दर्शनापदेशेन यत्र स्थितम् , यत्र विहृतम् , यत्र विश्रान्तम् , यत्र प्रपञ्चिताः परिहासालापाः, यत्र संचारिताः स्निग्धदृष्टयः, येऽभिनन्दिताः सविस्तरोदीरितगुणेन, येषूप- दिष्टस्तत्क्षणोपजनितपुष्पफलसंपवृक्षवल्लीदोहदविधिः, येषु संस्कृतानि खयमालवालानि सुकृतिना, यत्र कलासु कुशलाभिरन्तःपुरविलासिनीमिः सह कृतः क्रीडाविवादः, यत्र निर्वर्तितं मध्याह्नमज्जनकर्म, यत्र निर्मार्पितोऽभिमतदेवताभ्यर्चनविधिः, यत्र चाभरणमालावस्त्रप्रसाधनानां कृतः सुकृतभागिना परिभोगः, तांस्तानुपवनोद्देशान्दर्शितानालीजनैः पुनः पुनरतृप्ततया सबहुमानमालोकयन्ती सुचिरमितस्ततो व्यचरत् । गता च खमवरोधनं तदनुरोपबद्धखिरावस्थायाः 'प्रमादिनि, विना- भ्यासेन संपत्युपेयुषो निरवशेषविद्यापारदर्शिनः कुमारहरिवाहनस्त्र कसरदात्मीयकौशलं प्रकटविष्यसि इति तर्जिता रहसि काञ्चीराज-