पृष्ठम्:तिलकमञ्जरी.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी ३८७

पवनवर्त्मनि प्रस्तुतापहरणेन तस्मिन्नदृष्टपारसरसि तावके निपत्य निक्षिप्ता वयम् , यश्च तत्रैव पञ्चत्वमुपगतः शोचितो बहुप्रकारं पुरास्माभिः, सोऽयमग्रत एवागतः प्रतिपक्षयमदण्डो वेगदण्डः ।' स एवमुक्तो मया विहस्य किंचित्प्रावोचत्—'कुमार, दुर्घटमिदम् । नहि भूमिगोचरकरेणुरन्तरिक्षण संचरति । न च पञ्चत्वं गतस्तेनैव वपुषा पुनः खस्थानमायाति । तन्न सोऽयम् । अन्यः कोऽपि । एष तु स एवं त्वदीयः स्कन्धावारवारणः' इति । तदाकर्ण्य पुनरपि तमनवम्चित्रमाय, यद्येवं तदानयैनम् । यथैव प्रोषिता तथैवाश्रयामः शिबिरम्' इति भाषमाणस्तेनानीतमधिरुह्य तं द्विरदमीषन्मुकुलिताशामुखेऽहनि सहायापेक्षीव पुराणपुरुषेण सप्तसप्तिना सार्धमस्तक्षितिघरस्थितिौहित्यमगमम् । अवलोकनजातहर्षेण च सतर्षमुपसृत्योपसृत्य राजपथवर्तिना प्रणम्यमानः पौरलोकेन सर्वतश्चलितसंभ्रान्तकिंकरविरच्यमानद्वारवन्दनमालमारब्धमङ्गलोचारचारणालापजनितपरिजनोल्लासं स्वावासमव्रजम् । तत्र च स्थित्वा द्रष्टुमागतेन प्रणयिना राजलोकेन सहितः प्रवासवार्तया मुहूर्तमर्पितचारुवसतेर्विधाय विविधां चित्रमायस्य सायंतन- सपर्या पर्यकमजुषम् । निषण्णश्च तस्मिन्सविस्मयेन मनसा मुहुर्मुहुरूदग्रतां वैताढ्यनगवरस्य, रचनागुणं स्थनूपुरचक्रवालनगरस्य, गम्भीरता विद्याधरराजराजकुलस्य, कमनीयतां कन्याम्तःपुरस्य, वत्सलतां मलयसुन्दर्याः, प्रमविष्णुतां चक्रसेनदुहितुः, विलासक्रम कुमारीजनस्य, चतुरता खेचरस्य, चिन्तयन्नायताध्वखिन्नोऽप्यतिचिरेण निद्रामवापम् । यापयित्वा च किंचित्सावशेषामुषामुत्थाय कृत्वा प्रत्युषःकृत्यमनुगतो भृत्यलोकैरागत्य सघः प्रसृष्टमणिकुट्टिमोत्सृष्टनवनीरजोपहारमास्थानमण्डपागारमध्यतिष्ठम् । दृष्ट्वा च तदशेषतः. समुपविष्टदर्शनायातसाम-