पृष्ठम्:तिलकमञ्जरी.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८६ काव्यमाला।

यत्कर्तुमुचितम्' इत्युदीर्य कार्यक्षमं गमिष्यतो मम प्रागेव साकेतनगरोद्यानपरिचितं चित्रमायसंज्ञं नभश्चरमनुचरत्वमनयत् । प्रखितं च तं सहचरीचित्तवृत्तिज्ञा समाहूय मलयसुन्दरी सादरमवोचत्'भद्रमुख, गतमात्रेण त्वया प्रकाश्य पुरतः परिग्रहप्राग्रहरलोकस्य पुनरपीह प्रापणीयः कुमारः' इति । ततोऽहमुत्थाय विष्टरादास्यविनिविष्टदृष्टिः प्रत्येकमापृच्छच मलयसुन्दरी-तिलकमञ्जर्यौ तदादिष्टेन तत्क्षणादिष्टरणरणकशून्यदृष्टिना कुमारीजनेनानुव्रज्यमानो गत्वान्तःपुरद्वारमारुह्य गत्वरपरिस्कन्दसत्वरोपढौकितमनुत्तरं यानमादरनिवतितसहायातशुद्धान्तलोकः खमण्डलाभिमुखमचलम् । निर्गत्य च क्रमेण नगरानस्थितोऽम्बरपथेन पश्यन्पुरोयायिना विद्याधरगणेन वारंवारमावेद्यमाननानाविधविशेषानवनितलजुषः पूर्वदृष्टानदृष्टहारिणस्तांस्तानुद्देशानचिरेणैव देशमात्मीयमासदम् । उपजातपरितोषश्च तदवलोकनेन दीर्घाध्वलचनादीषदवसन्नाग्रतः सरससहायं चित्रमायमवदम् –'सखे, सेयमटवी, स चायमद्रिर्यतोऽपहृत्य कथमपि समुत्पन्नगमनोत्पतनशक्तिना खेनैव सेनाद्विपेन प्रापिता वयं त्वद्विषयम् । ततः स्थिरो भव । क्षणमात्रमत्रैव कुमों विश्रामम् । आसन्नमेवाग्रतः शिबिरमास्त' इत्यभिधाय यानादवातरम् । आसीनश्च निझरासन्नतरुतले यावदतिवाहयामि कंचित्कालं तावदेकसिमबनेकतालदमे गिरिनदीमहाहृदपयसि तत्क्षणकृतावगाहः प्रथमजलधरासारसलिलप्लुत इवाप्रतिमदन्तोऽदिरेकः सप्रतिमदन्तो महाकायः करी तमुद्देशमागच्छत् । हा च तमितस्ततो गमितचक्रवाकमिथुनमुन्मथितकमलाकरच्छायं समयमिव सायंतनं ध्वान्तवलयेन परितः प्रसर्पता परिगतमरण्यगजयूयेन जातमत्यभिज्ञचित्रमायमवदम्-'सखे, पश्य चित्रम् । येनोत्पत्य