पृष्ठम्:तिलकमञ्जरी.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८० काव्यमाला।

कन्यकायाः शरीरचेष्टामसकृदालोकयम् । अवादिषं च योषितमिमाम्"आयें, मा विषीद । विषविकारोऽयमस्याः समन्ततो वपुषि विलसितः। सचेतनाद्याप्यसौ समर्था जीवितुम् । किं त्वममोघवीर्यदिव्यौषधिसमूहसंबाधमधुनैव गन्तव्यमनया स्थानम्' इत्युदीर्य किंचिदन्तस्मितचिन्तितवान्-'अहो विचित्रता कार्यपरिणतेर्या खशुद्धान्तसौधावद्धवसतिरनेकलीलाविलासनिर्भर भोगसुखमनुभवन्त्यद्य दिष्ट्या मया द्रष्टव्या' इति । चिन्तितम् , सैव चिन्तितानन्तरमेव भीमकान्तारमध्ये धरणितलनिषण्णा विगतचैतन्यविग्रहा दृष्टा महानुभावा मलयसुन्दरी। यदि कथंचिदहमनेनाध्वना नागमिष्यं कथमिमामिह स्थितामद्राक्षम् । सर्वथा दधत्याप्यवस्थामिमां जीवितव्यमनयेति मनसा विमृश्य निजविमानमध्ये सविधवर्तिनः सरस्तीरदेशादभिनवोद्धृतैनलिनीदलैर्मृणालकन्दैः प्रत्यप्रभमेश्चन्दनप्रवालैर्निषद्यामरचयम् । तत्र चातितीविषदाहवेदनोपशमाय शनकैर्निधाय तां पिधाय च प्रसीयसा निजपावारेण सर्वाङ्गेषु जिगमिषुरन्वेषितानेकमलयसुन्दरीजीवितोपायैर्निःसहं चित्रमायमवदम्-'सखे चित्रमाय, चलितस्तावदहमभिलषितमुद्देशम् । त्वया पुनरिहैव शोकापहारिभिर्वचोमिरार्यामिमामाश्वासयता दिवसमेकमासितव्यम् । यदि तावदेषा पुण्ययोगादपगतविषोपद्रवा शीघ्रमेव संवृत्ता, ततोऽहमधुनैव सार्धमनया समागत्य गतविलम्बः समादिष्टमम्बया विधाय गन्धर्वदत्तादर्शनमयोध्यायां पुरा कुमारस्य यत्पुरः प्रतिपन्नमालेख्यदापनादि प्रयोजनं तदहमात्मनैव सर्वं करिष्यामि । अविलम्बो दैवयोगात्संजातः । ततः क्षिप्रमेव भवता परित्यक्तपुरुषरूपेण देशान्तरप्रापणक्षममलक्षितं किमपि प्राणिरूपं रक्षतात्मानमादरेण रथनूपुरचक्रवार कुमारो नेतव्यः । तत्र हि गतेनानेन महती कार्य-