पृष्ठम्:तिलकमञ्जरी.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला उपाश्य च सुचिरमन्तिकन्यस्तविष्टरोपविष्टा प्रक्षाल्य च खयं परिजनाहतेन खच्छवारिणा मञ्चरणयुगलमादरार्पितप्रचुरपुष्पताम्बूला तिलकमञ्जरीपार्श्वमगमत् । सा तु प्रविष्टमात्रैव सद्मनि प्रतिदिनमेव दर्शनोत्कण्ठितायाः प्रथमागमनलज्जितां मलयसुन्दरी सहसैव गत्वा मातुरन्तःपुरगतायाः सादरमदर्शयत् । खयं च मद्दर्शनाशया दीर्घावलबनेन खिन्नासीत्यलीकमेवादिष्टशिशिरोपचारा त्रिचतुराप्तसहचरीसमेता सौधशिखरामसङ्गिनी शयनचित्रशालामगच्छत् ।

 तस्यां च तत्क्षणोद्घाटितकपाटप्रकटितोतराशे दक्षिणेतरभित्तिभागाश्रयिणि सुश्लिष्टमणिभूमिकान्ते शशिकान्तवातायने चितज्ञेन विरचितविचित्रविन्यासैश्चतुरपरिचारिकाजनेन सरोजिनीपत्रशयनीयमधिशयाना पन्नगाङ्गनेव चन्दनागरागिणी, निदाघान्तदिवसकरमूर्तिरिव धृतदशाशान्तपरिश्रवन्नवजलार्द्राशुका, शुकाङ्गनीलसजलशैवलप्रवालकल्पितकर्णपूरा, नूपुरस्थानसंदानितसनिद्रकैरवमुकुलमण्डलीका, जघनमण्डलनद्धनीरन्ध्रकुवलयदामरसनागुणा, श्रवणपाशदोलायमानकुमुदिनीकन्ददन्तपत्रा, कण्ठमुजकराग्रादिभिः शरीरावयवैरखिलमपि. हारकेयूरकटकप्रभृत्याभरणजालं मार्णालमुद्वहन्ती, साक्षादिवामृतजलधिजलदेवतागतेऽप्यर्तिमायतनिःश्वसन्ती, विनापि वेदनां वदनमाकूणयन्ती, अन्तरेणापि तापमतिपल्लवतले रलदर्पणं दापयन्ती, अबहुमन्यमानापि पवनस्पर्शमनवेलमभिनवानि कदलीपत्रतालवृन्तान्युरक्षेपयन्ती, उभयतो निविष्टेन वेदितुमिवायाममक्ष्णोरुपरि वारंवारमारोमितजलाईनीरजदलद्वया, मातुमिव विस्तारमुरसिजपीठपृष्ठे प्रतिविसविशालनलिनीपलाशा, शिक्षितुमिव तदीयरेखामभिललाटमालिख्यमानमलयजललाटिका, लन्धुमिव निवाससौरभोत्कर्षमुरसि विक्षिप्य,