पृष्ठम्:तिलकमञ्जरी.pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलमञ्जरी

ससीमा सग्रामा मामा सनगरसरिट्वीपवल्या
तमिसादुन्मज्जत्युदधिजलमध्यादिव मही ।
यथा स्थूलं मूलेऽवतरति दृशामर्थनिकरो
यथा सूक्ष्मं लक्ष्मी त्यजति विधुरस्तारकगणः ।
यथा वृद्धं बन्धः कमलमुकुलानां विघटते
यथा निम्नं भूना रचयति पदं ध्वान्तनिचयः ।।
अयं वारस्त्रीणां सुरतविधिजात्यपिशुन-
स्तिरोषत्ते काञ्चिध्वनिवहलितः कण्ठनिनदः ।
असावघ्यावृत्तिप्रशृ(स)तरवरेलाविलिखितै
र्गलच्छिदैनिद्रां ब्रजति रतिपारापतगणः ।।
अक्स्या(श्या)यस्पन्दै रभसरतनिष्पन्दवपुषां
विलासिद्वन्द्वानां द्रुतनिबिडिता श्लेषविषयः ।
दिशन्तो मौलय भवनवलमीजालकभुवां
धुतकीडोद्याननुमविततयो वान्ति मरुतः ।।
प्रभातप्रायासी रजनिररुणज्योतिररुणं
रुणद्धीदं रोदो दिशि दिशि तमस्ताम्यतितमाम् ।
प्रभाछिद्रश्चन्द्रो दलति दुलमैत्री जलरुहां
रहोऽनुत्साहस श्लथय नृप निद्रासुखरसम् ।।

श्रुत्वा चैतदुपजातविस्मयोऽहमरुणप्रभोद्भेद एवोत्थाय शयनात्किं चिदाबद्धकमलखण्डोन्मेषमीषदुपशान्तशोकसंचरत्कोकयोषान्विष्यमाण- सहचरमनिललोलकल्लोलदोलायमानद्वित्रजलचरपतत्रिमिथुनमाबद्धपिण्डडिण्डीरशबलितशिलासोपानमालामूलमुपशान्तपरकलाशीतलखच्छनीरमपारसरस्तीरमनजम् ।