पृष्ठम्:तिलकमञ्जरी.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ३५२ कौतुहृता वदन्तिकादुत्थाय शैलप्रस्थमवलोकयन्ती करेणुकारूढा तमेवोद्देशमुपदिश्यमानसरणिरन्तर्वशिकैरागच्छत् । आसाथ च लक्ष्णशितसुकुमारवालुकं पुलिनमेकमवतीर्णवत्यामत्र प्रमदपरतत्रः समतोऽपि सधीचीजनोऽस्याः क्रीडितुमनेकप्रकारमारभत । कोऽपि हरिचन्दनमेषु दोलामरचयत् । कश्चिद्वल्कलविवराकृष्टेन कर्पूरकणरेणुना गात्रमच्छुरयत् । अन्यः कर्णपूराशया करनखागैर्लवङ्गपल्लवानग्रहीत् । अपरः सरस्तीरविघटितशुक्तिमुक्तैर्मुक्ताफलै तक्रियां प्रावर्तयत् । सा तु निर्भरविकसिताभिरमरतरुवल्लीपरम्परामिः प्रलोभिता सलीलमुत्थाय चरणचारेण पुष्पावचयमकरोत् ।

 परिश्रमन्ती च तत इतो नितान्तरमणीयमाकरमिवामोदस्य, सदनमिव पुष्पसंपदाम् , आम्पदमिव मकरकेतोः, निकेतनमिव सर्वर्तनाम्, उल्लासितकराकारविटपाभिरुपरि निपतन्तमातपमिव निरोद्भुमूर्ध्वमतिदूरमारूढाभिरतिमुक्तकलताभिलवलीमिस्ताम्बूलवाल्लीभिरन्याभिश्च प्रशस्तवनलताभिर्निरन्तरानद्धनिबिडभित्तिभागमतिघनतया मारुतेनापि दुःखलभ्यप्रवेशमामोदतरलितैस्तरुणतापिच्छपिकपिच्छभासि छदच्छायातमसि कूजितेन व्यङ्ग्यै निकरैरक्रमाक्रम्यमाणकुसुमस्तवकमेकमेलालतामन्दिरमविक्षत् ।

 प्रविष्टमात्रायामेव तस्यामकसमादशनिताडनश्रुटितविकटाञ्जनशैलशिखरानुकारी युगान्तघनघटाघोषमीषणेन विस्तारिणा कण्ठरसितेन रोषयनीषदुपजातनिद्रानन्दविच्छेदमद्रिकन्दरामन्दिरमृगेन्द्रवृन्दमचिन्तितावासमृहिणीस्वयंमहाश्लेषविनमैः सहर्षसंक्षोभमीक्षितः क्षितिधरगुहासु शक्रसेनाधिपैरतर्कित एवागत्य गगनाप्रदेशात्सरस्थपतदवनतमुखो महावारणः । तस्य चोच्छलितसलिलच्छटाखपिततुटविटपिना

२३ ति. मं.