पृष्ठम्:तिलकमञ्जरी.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५२ काव्यमाला मृगाङ्कमण्डलक्षालिततमःपडपटलामनतितुङ्गया निरन्तरसमाससंगलितसौभाम्यया सुश्लिष्टसंघानमणिशिलातलघटितया शिखरपरिपाच्या समन्ततः परिक्षिप्तपीठां मठाग्रभूमिकापृष्ठवर्तिनीमिन्दुकान्तमाणिक्यमण्डपिकामगच्छम् ।

 तस्याश्च मणिशिलाबन्धबन्धुरेषु मन्थरपदन्यासया गत्या सविभ्रम परिप्रम्य पर्यन्तेषु दृष्ट्वा च दिशि दिशि प्रदीप्तदिव्यौषधिकलापोहयोतकपिलितातुच्छकूलकच्छमुच्छलितचन्द्रमणिकन्दरासान्द्रनिर्झरनिनादमिन्दुप्रभाप्रकाशितविभागमेकशृनविस्तारमुपजातहर्षोऽहमचिरनिर्वर्तितपदो- पकृत्यामतर्किताधिगतकान्तकुशलोदन्तनिर्वृतामच्छसलिलक्षालनापास्तरजसि मण्डपिकाजिरे रजतवेदिकामाश्रित्योपविष्टां मलयसुन्दरीमुपगम्योपाविशम् । आसीने च मयि नातिसंनिकृष्टमध्यास्य विष्टरमुत्सुकोसुका समागत्य चतुरिका साकूतमवदत्-भर्तृदारिके, निश्चलविधृतया() शिबिकाप्ययानधारायणो नाम कचुकी कतिपयपरिस्कन्दपरिवारो द्वारि । ब्रूते चैषः 'बलवदश्व(ख)स्थचित्तया तिलकमञ्जर्या प्रेषितो मलयसुन्दरीमानेतुमहम्' इति ।

 निशम्य चैतदुत्पन्नसाध्वसा द्रविडराजपुत्री तामपृच्छत्—'भद्रे,विदितमस्यास्त्वया किंचिदस्वास्थ्यकारणमन्येचुरेव निरामयशरीरा मत्सकाशमागत्य गता खगृहमायुष्मती'। सा प्रत्यभाषत-भर्तृदारिके,सम्यंगहमपि न जानामि । तदपि दृष्टं श्रुतं चावेदयामि । अतो दिनादतिकान्त एकदिवसव्यवहितेऽहनि प्रातरेव द्विगुणतरतरुणतरुगणं दक्षिणमदृष्टपारसरस्तीरतटवनमितोऽहमनाजिषम् । अवचितविकचकुसुमा च. कृत्वा देवतार्चनं यावत्वत्कृते फन्दफलमूलमन्वेषयन्ती कंचित्कालमतिवाहयामि, तावद्भदारिकापि तिलकमञ्जरी वनविहार-