पृष्ठम्:तिलकमञ्जरी.pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

 अत्रान्तरे चतुरोदारवेषा यदृच्छया सरस्तटलताखण्डेषु कुसुमान्यवचिन्वती देवतार्चननिमित्तमागता तमुद्देशमेका द्वित्रिपरिचारिकापरिवारा स्तोकपरिणतप्रौढयौवना योषित् । ऊर्ध्वस्थितैव च सा समुपजातप्रत्यभिज्ञेव निश्चलतारकेण चक्षुषा सुचिरमवलोक्य मामुद्धरखरेण ध्वनिना ससंभ्रमा समभाषत--'वत्से मलयसुन्दरि, कुतस्त्वम् । कथमेकाकिनी पतिता शून्यायामिहाटव्याम् । केनेयमीदृशी तव संपादितावस्था । हा, हतोऽसौ येन दुर्मेधसा तान्यपनीय चिरंतनानि सिचयरत्नानि कल्पतरुलतायामिव सर्पकञ्चुकशल्कानि वल्कलान्यमूनि तव तनौ समारोपितानि । उत्तिष्ठ पुत्रि, परिप्वजख क्षणमात्रं जातमित्रभावं जनमिमम्' इति ब्रुवाणैव सा स्वयमुत्थाप्य मामशिथिलव्यापारितभुजद्वया कण्ठे गृहीतवती ।

 अहं तु तत्कालदुर्लभेन प्रकटितान्तःप्रीतिना तस्यास्तेन वचनविन्यासेन पूर्वपरिचयप्रकाशनपुरःसरेणेव समाश्लेषेण कृतसमास्वा(वा)-सा परां निर्वृतिमगच्छम् । आदरव्यापारितमतिश्च 'क्व दृष्टा मया,क्व दृष्टा मयेयम् इति चिन्तयन्ती चित्रलेखेयमिति तो परिज्ञातवती ।

 अत्रान्तरे पूरितवनान्तरालो नातिदूरे ससंघमोल्लासितकनकदण्डोहामरकराणामग्रतः प्रधावन्तीनां वेत्रधारीणामुञ्चचार मिश्रीभूतः श्रवणहारिणा चारणबन्धुजनजयन्याहारेण दूरनिर्हारी समुस्सारणध्वनिः ।

 अथातिमन्थरच्छत्रगतिसूचितविलासमन्दपदविन्यासा, विधूयमानधवलचामरा, सविनमोल्लासितभुजलताभिरुभयतो वारललनाभिरनादरसंदानितदरास्या(श्या नखानाकेशपाशा, कचिदप्यमुक्तश्रिया विजित्य वदनारविन्देन बन्दीकृतमिन्दुमिव चन्दनतिलकबिन्दुमलकिना ललाट-


१ द्वित्र' इति स्यात्,