पृष्ठम्:तिलकमञ्जरी.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३६ काव्यमाला। दत्तावधानयाप्यधन्यया निष्पतन्ती तपोवनानोपलक्षिता । कथमिदानीं प्रमादोपहतमात्मानमृषिजनस्य दर्शयिष्यामि । कथं च कुलपति कुपितमनुनेष्यामि । किं मुषा निधाय जानुनोरुपरि मूर्धानमवनतमुखी तिष्ठसि । उत्तिष्ठ । गच्छाश्रमम् । दृष्टा शीलवति, ते शालीनता' इति ब्रुवाणा कराग्रेण बाहुमूले मामग्रहीत् । उत्थाप्य च कथंचिदतिमहता प्रयासेन प्रचलिता नीत्वा पदानि त्रिचतुराणि विगतचेतनामिवासमअसक्षिप्तचरणां चिरेण मामुत्पन्ननिर्वेदा पुनरेकत्र वृक्षमूले न्यवेशयत् । अभाषत च विषवेदनाविषण्णां मुहुर्मुहुरुच्चखनेन 'मलयसुन्दरि,मलयसुन्दरि, किमेवमुत्सृष्टसौष्ठवा तिष्ठसि । किं च वारंवारमालापितापि मे वाचं न प्रयच्छसि । अपि न कुपिता त्वम् । वत्से,परित्यक्तनिजनिवासे चिरप्रवासोपतापितमनसि रौद्रवनवासकष्टप्रनष्टदेहवर्णलावण्ये त्वन्मुखालोचनजनितमु(सु)खमानावलम्बितजीविते दीनशि परिजने मादृशि किं करोषि रोषम्। किमहिताहं ते। किमन्योऽस्ति कश्चिन्मम तब स्थाने । किं द्वेषेण निष्ठुरं त्वां तर्जयामि । किं प्रातिकूल्येन विचरन्तीमितस्ततो निवारयामि । प्रस्थानसमये सबहुमानमाहूय त्वदीयपित्रा वारंवारमभ्यर्थिताहम्—'एषा मलयसुन्दरी निमेषमपि न त्वयोपेक्षितन्या, रक्षितव्या च सर्वोपद्वेभ्यः शरीरमिव मदीयमत्यादरेण । तेनैष मे प्रयत्नः । अन्यथा किमहमेवं त्वां नियन्त्रयामि । सर्वथा यथासुखमास्ख । न त्वामितःप्रभृति दुःखे स्थापयिष्यामि' इति तस्याः श्रवणदुःखदायिनः खेदप्रलापाननिच्छतीव श्रावयितुमपजहार चेतनां मे मूर्च्छा ।

 ततोऽहं कियत्यापि वेलया नष्टनिःशेषविषवेगनिद्रा मनसि मुक्ता वपुषि कवलितातिबलवता जाड्येन कण्टकितसर्वाङ्गलेखा 'तरङ्गलेखे,