पृष्ठम्:तिलकमञ्जरी.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी ।३२९

तथाविधेऽप्युपद्रवे दैवादजातमरणां पुनर्जातेति माममन्यत । भूयो मरणसंभावनया हृदय इव निक्षेमुकामस्तत्कालमधिकमुल्लसितेन बलकतापत्यस्नेहेन मोहितो मुहुर्मुहुर्गाढमस्वजत ।

 व्यसृजच्च शनकैः सान्तरनुतापमालापम्—'वत्से मलयसुन्दरि,क्षमख मे म्खलितमेतत् , यदपरिज्ञाय हृदयभावं भवत्याः सहसैव त्वमस्माभिरस्मै शत्रुसामन्ताय दातुमध्यवसितासि । किं करोमि । न केनापि पूर्वमावेदितो ममैष त्वदपहारवृत्तान्तः । जाने जनन्यापि ते संप्रत्ययमवगतः । अन्यथा तत्पदानसमये पृष्टयास्माभिः किमिति यथावस्थितमेव खरूपं नाविदितं मे । तदलमुढेगेन । स्वस्थचित्तास्व ।न त्वामिदानी प्राणविच्छेदेप्यमुप्पै संप्रयच्छामि । केवलं कंचित्कालमनुभवितव्यो भवत्या जनितः क्लेशायासः । सोढव्यमधिकमूढचित्तया सुहृडून्धुजनविप्रयोगदुःखम् । एष वज्रायुधः सिद्धादेशदैवज्ञवचनप्रत्ययेन सकलखेचरचक्रवयमात्यपदसंप्राप्तिकामः किमपि बद्धाग्रहः करग्रहविधौ वरणाय ते प्रातरेव प्रहेप्यति प्रधानपुरुषान् ।प्रतिपन्ना च भवती प्रत्यक्षदर्शनातिदुष्करा निषेद्भुमेषाम् । आसन्नवर्तिनि च यत्र कापि नगरे वा जनपदे वा तवावस्थानमहितस्य सर्वतो विहितचारसंचारस्याध्यक्षमेव । तदुत्तिष्ठ वत्से, विधेहि प्रस्थानमधुनैव दूरदेशान्तरगमनाय' इत्युक्तवन्तं च तातं माता मे पुनरवोचत्-'देव,यद्यसौ दूरे गमयितव्या तद्वरं तत्रैव पत्रललिग्धपादपे दक्षिणाधिजलतरणास्फालवाचालदेवार्चनशिलावेदिके मल्यमेखलामूलवासिनि प्रशान्तवैराख्ये वैखानसाश्रमपदे गच्छतु, यत्रार्यपुत्रेण सह मे प्रथमदर्शनं संवृत्तम् । तत्र हि।

प्रातः प्रातरवेक्ष्य होमहुतभुग्धूम्यामहादुर्दिनं
हृष्टस्याश्रमबर्हिणस्य रसितैरायामिभिस्त्रासिताः।