पृष्ठम्:तिलकमञ्जरी.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२८ काव्यमाला॥ किं वाभ्यधिकमन्यद्विज्ञापयिष्यामि । द्वावपि व्यञ्जितौ देवेन पक्षौ ।य एवात्मने रोचते, य एव बहुगुणः प्रतिभाति, स एवाश्रीयते'इत्युक्तेऽम्बया पिता मे पुनरवोचत्—'देवि, ममैष तावत्संकल्पः ।एष वज्रायुधः प्रदानेन वत्साया न संप्रति खीकर्तुं नाप्यदानेन निराकतुमुचितः । केवलमिदं करणीयम् । अस्यामेव शर्वर्यामनुपलक्षिता जनेनेयमाप्तकतिपयलोकपरिवृता देशान्तरे दवीयसि विसर्जते । प्रजासु च 'आयुप्मती स्मरायतनजागरणसमुत्थया झटित्येव तीव्रया शूलव्यथया विसंस्थुलीकृतशरीरा 'संस्थिता' इति प्रकाश्यते । अत्र हि कृते जनापवादः परिरक्षितः, विपक्षश्च न विरूक्षितो भवति । अनुपलक्षितावस्थिती चास्यामुत्थिते सर्वत्रवाभावप्रवादे दीर्घविग्रहजनितनिवेदोऽयमपरकन्याप्रदानेन वा देशैकदेशविश्राणनेन वा कतिपयगजाश्वापवर्जनेन वातिनिपुणमुपपादितेन पणबन्धेन संधी स्थापयिप्यते' इत्युदीर्य कृतपाधीवलोकनो नातिदूरे निषण्णमाहूयेकमाहानाय मे वर्षधरमादिक्षत् ।आहूतोपढौकितां च तेनास्थानविहितात्मवधसाहसत्रपाविलक्षविक्षिप्तेक्षणाम् 'प्रभाते विपक्षाय दीयमानः कथमात्मा मया रक्षितव्यः'इत्यनेकोपायचिन्ताचान्तःसकललावण्यविच्छायमुच्छन्नचैतन्यमिव शरीरमुदहन्तीमवलोक्य मामुत्पन्नकरुणस्तातः ‘एहि पुत्रि, परिप्वजख मां नृशंसम्' इत्यभिदधानो बाप्पायमानदृष्टिगृहीत्वा भुजाभ्यामदेशे मामुपावेशयत् । वारं वारमुत्सृष्टदीर्घनिश्वासश्च स्मृत्वा स्मृत्वा मदीय

मुद्बन्धनदुःखमधिकमात्मनश्चेष्टितेनान्वतप्यत । विसर्गेऽप्यमुक्तमत्संनिधेः खिग्धतां बुद्धिमत्तां च बन्धुसुन्दर्या मुहुर्मुहुः प्राशंसत् ।पाशच्छेदविहितास्मत्प्राणरक्षे सिंहलेन्द्रसूनौ परां बन्धुबुद्धिमबध्नात् ।


१. 'दिसृज्यवे' इति स्थान, २. मृता.