पृष्ठम्:तिलकमञ्जरी.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। ३२७

 आरोप्य च शयनचित्रशालिकायामविलम्बितगतिस्तत्कालमेव गत्वा सर्वमपि विद्याधरापहरणादिचित्रशालिकाधिरोहणपर्यन्तमम्बाया यथावस्थितं मदीयवृत्तान्तमकथयत् ।


 असावपि तमाकर्ण्य संम्रान्तहृदया विस्मयप्रमदसाध्वसादिभावशबलितं शोकमुद्वहन्ती समुपसृत्य सविधवर्तिनं द्वितीयशयनमधिशयानस्य मपितुरनुचोच्चारिताक्षरा श्रवसि समचारयत् ।

 पितापि मे तदुपकर्णनेन सद्य एवोपजातवैवर्ण्यः स्थित्वा मुहूर्तमवनतमुखः सखेदमवदत्-'देवि, पश्य दुरात्मनो देवस्य गतिम् ।एषा मलयसुन्दरी मन्त्रिमतमनुवर्तमानेन तवापि वचनमप्रमाणीकृत्य वज्रायुधाय विग्रहोपशान्त्यर्थं मया दातुमिष्टा । निर्दिष्टं च तत्प्रेषितप्रधानपुरुषाणां प्रभाते संप्रदानलग्नम् । अन्तरा चायमन्तरायः संवृत्तः ।यदि तावदवघीनमवधार्य च प्रबलवैरिवृन्दावस्कन्दपीडितानां प्रजानां क्षेमलाभमनपेक्षितापत्यप्रीतिरेनाममुष्मै प्रयच्छामि, ततो नियतमेषा जात्यैव पुरुषद्वेषिणी पुरुषान्तरेऽवरूढगाढानुरागा शस्त्रेण वा विषेण वा वृक्षशाखोरन्धनेन का प्रायोपवेशनकर्मणा वा जीवितं मुञ्चति । अस्यां च पञ्चत्वमुपगतायामाकल्पमयशो दुष्कृतं च मे नोपारमति । अथ न प्रयच्छामि, ततोऽधुनैव संधानमानीतो विशिख इव विघटते विपक्षः । विलक्षीभूतश्च महतीमप्रतिष्ठामुपकण्ठवर्तिषु नृपेषु प्रख्यापयति । एवं स्थिते कर्तव्यमूढं मे हृदयमिदमपेक्षते तवोपदेशम् ।आदिश यदत्र सांप्रतं करणीयम् ।

 अम्बा तु मनसा गृहीतक्षणापि 'मत्प्रदानपक्षनिराकरणे पूर्वमादृतं न मे वाक्यममुना' इति किंचिदुपजातरोषेव विरतवाक्प्रवृत्तिः स्थित्वा क्षणमधोमुखी मध्यखमेव वचनं व्याहरत्- 'देव, काहमुपदेशदाने ।