पृष्ठम्:तिलकमञ्जरी.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिल्कमारी। ३२३ राजलोकश्चानेकसहससंख्यस्तत्र यास्वति । कुमारस्वापि यदि नरेन्द्रानुवृत्त्या भक्त्या यदि लोकमार्गानुसरणेन यद्यन्यदेशयात्रास्थितिविलोकनकुतूहलेन युज्यते गन्तुम् , प्रस्तुतस्यापि प्रयोजनस्य सिद्धावयमेवावसरः।यद्यत्रापि शैथिल्यं तदा कोऽन्यः प्रक्रमो भविष्यति । यत्र तदर्शनं भावि ।' अहं तु 'युक्तमयमाह' इति मनसाभिनन्दिततदीयवचनस्तक्षणमेवोच्छाकृतमजनो गृहीतरुचिरवेषः समारोपितवर्यकनकपर्याणां करेणुकामधिरुह्य कृपाणकुन्तपाणिना तरुणवण्ठप्रायेण पदातिलोकेन परिमितेनैवानुगम्यमानो मनोभवायतनमिदमभ्यागमम् । अवतीर्य च कृतप्रवेशः प्रणम्य दूरखित एव मन्मथमुन्मथ्यमानहृदयस्त्वद्दर्शनोकप्ठ्या द्वारदेशाभ्यासगतमन्यतममुत्तमं मचवारणकमध्यासितवान् ।तत्र च समासनचारिणा परिचारकेण तूर्णमुपनीतायामलघुतरविस्तारायां नेत्रविस्तारिकायामुपविष्टः प्रत्येकमनुरागशून्येनापि चेतसा निष्पतन्तमापतन्तं च वनिताजनमनन्यदृष्टिरीक्षमाणो दिवसमनयम् ।अवसिते च वासरे विरलीमवत्सु कृत्रिमतुरङ्गवारणक्रीडाप्रधानेषु प्रेक्षणकेषु, विघटितासु विटलोकलोचनसुधासु वेश्यारासमण्डलीषु,कृतपरस्परसेकयुद्धेषु मस्थितेषु मज्जनवापिकाभ्यः कनकशृङ्गभृङ्गारपाणिषु भुजापौरेषु, निर्याते यात्रायातनगरनारीगणे, क्षणेन विरते रतिभर्तुरायतनरामणीयके, झटिति नष्टाखिलाशः समं मार्तण्डमण्डलाभोगेन विच्छायतामगच्छम् ।

  श्लथीभूतसकलगात्रसंधिश्च कथमप्युत्थाय तस्या द्वारमवारणकादेकहेलयोजिहानस्य कल्पान्तदहनदारुणस्य दाहज्वरव्यथावेगस मरणमेव मन्यमानो निराकरणमणोपविष्टानुपभित्य सर्वानप्यात्मसेवका-


१. वसविशेषगद्दिकायाम्. २. आशा मनोरथः, दिक् च.