पृष्ठम्:तिलकमञ्जरी.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी। दृष्ट्वा च तां तथाविधावस्थामुपस्थिता प्रतिविधेयविपदमेकपद एवास्पदीकृतामखिलैरपि त्रैलोक्यवर्तिभिरसौल्यैः शतमुखीभूतदुःखवेगा विगलितोष्णबाप्पपटलविश्लावितमुखी कृतप्रयत्नापि दृढमतिगाढपाशग्रन्थिपीडितगलत्वादपारयन्ती वक्तुमुत्क्षिप्य किंचित्प्रचलितेन पाणिना दक्षिणेतरेण रुदतीं तां न्यवारयम् । सा तु तेन प्रचलता मरकरतलेन तालवृन्तेनैव प्रबलसंदीपितशोकपावका ‘भर्तृदारिके, विरम । किं वारयसि देवेनैव चारिता । विरताहमद्य प्रभृति रोदनात् । अनाकुला प्रसाधय स्वाभिप्रेतमर्थम् ।अस्माद्विधे बाह्यपरिजनेऽद्यापि कः प्रतिबन्धः' इति रोषादिवोदीर्य द्विगुणमापूर्यमाणबाप्परुद्धगलनियंदागद्गदाक्षरमुन्मुक्तगुरुतराक्रन्दा दूरमुत्क्षिप्योत्क्षिप्य पातितेन निर्दयाघातविघटिताङ्गुली किसलयगलद्रुषिरशीकरण करयुगलेन युगपदुत्तमाङ्गमुरस्तटं च ताडनत्रुटिसहारमुक्तमुक्ताफलासारसंवर्धिताश्रुबिन्दुविसरमनवरतमाजप्ने ।

 घनतरावधूनितहस्तयाथ तथैव मया पुनः कृतनिषेधा निर्याय तस्मादशोकतरुतलात् 'अद्यापि स्पष्टचेतनासमर्था जीवितुमसावन्वेषयामि कंचित्' इति विचिन्तयन्ती समन्ततः प्रहितलोचना मन्मथायतनसंमुखी सत्वरमधावत् । एतावन्तमेव तत्कालवृत्तमात्मनस्तस्याश्च वृत्तान्तमविशदत्तया खानविज्ञानसदृशमवगतवती । ततः परम् "किं तयोक्तम्,किमनुष्ठितम् , कः प्रसाधितोऽर्थः, कीदृशश्च संपन्नो ममावस्थाविशेषः'इति प्रबलवेदनावेगजनितेन कृत्वकरणशक्तिच्छिदा मूर्च्छागमेन मुषितविज्ञाना स्वल्पमपि नाज्ञासिषम् । केवलं कियत्यापि वेलया समुपलब्धसंज्ञा व्यपगतपाशबन्धना निरावाधनिश्वासप्रवृत्तिरमृतपङ्रकपर्यङ्कसुप्तमिव विकचपङ्केरुहा राशीकृतनिवेशमिव समासादिता पूर्वमृदुतर-