पृष्ठम्:तिलकमञ्जरी.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमारी। ३०७ समासन्नभूतलस्पर्श निरालम्बमम्बरे कृतस्थिति राञ्चितेन संकुचता प्रतिक्षणं पाशवलयेनाकालचलितं जीवितमिव निरोद्धुमतिनिबिडमापीडितशिरोधरा कण्ठरोधादूर्ध्वमनवकाशेन निष्कासनसहान्सहायानिवान्वेष्टुमन्त म्यता श्वासपवनेन निर्भरमापूर्यमाणकुक्षिकोशा प्रियवियोगादपि दुःसहेन गृहागतार्थिजननिराकरणादपि कष्टतरेण विपक्षपक्षोपसर्पणादपि संतापकेन निशितनिस्त्रिंशदारणादपि दारुणेन महानरकवासदुःखसंवादिना वेदनावेगेन व्याकुलीकृता पृष्ठत एव मे समागताम् , अन्तिकस्थामपि विसंस्थुलतया चक्षुरिन्द्रियस्य स्तोकमप्यनुपलक्षिताम् , श्रवणमार्गमक्तीर्णेन विस्तारिणा करुणरटितेन कथमपि चिरेण प्रत्यभिज्ञाताम्, 'हा, किमिदमापतितम्, किं संवृत्तम्,किमनुष्ठितं निष्ठुरप्रकृतिना देवेन' इत्यभिधायाभिधाय प्रचलितकांचीरत्नवलयावलीवाचालमप्रकरयुगलमन्योन्यमास्फालयन्तीम्, मुहर्मोक्षणाय पाशग्रन्थेरशोकमारोहूँ परकरमाबध्नतीम् , मुहुर्भाङ्गाय शाखायाः शिखामधोमुखमाकर्षन्तीम् , मुहुर्मूलवेदिकाने निक्षिप्य चरणावाकर्षणाय मे तिर्यग्भुजयुगं प्रसारयन्तीम् , मुहुः कल्पनाय पाशस्य प्रविश्य वनं बालपर्णशालासु परशुदात्रशस्त्रिकादीन्युपकरणान्यन्वेषयन्तीम् , मुहुः कण्ठबाधाप्रतिविधानाय धृत्वा जङ्घयोर्मामूर्ध्वमुक्षिपन्तीम्, मुहुरवष्टम्भाय मञ्चरणयोरधस्तादुपलशकलान्युपर्युपरि विरचयन्तीम्, अशोकशाखाधिरोहणाय विटपान्तरालपातिनो रज्वायतानिन्दुकिरणानप्यनवलम्बमानाम्, साहायकाय विगतचेतनेषु पाषाणपुत्रकेप्वपि दृष्टिं पातयन्तीम्, निश्रेणिकानिषष्णध्यानतया दीर्घपृथुलां केलिदीपिकातरङ्गश्रेणिमपि साकाजमवलोकयन्तीम्, अष्टमदक्षणोपायतया च मनसि पुनितासघदुःखां मुहुर्मुहुमूर्च्छामनुभवन्तीम्, मोहविरतौ च