पृष्ठम्:तिलकमञ्जरी.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०६ काव्यमाला। प्रातः प्रमीतामसम्यगावृतवपुषमवलोक्य मां नरलोकापामेष्यतीति शङ्कया निबिडनीविबन्धनमपि पुनः पुनर्गाढीकृत्य निविशितमशिथिलकनुकावृत्तस्यापि कुचमण्डलस्योपरि विधाय चिरमुत्तरीयेण बन्धुरं गात्रिकाबन्धममन्दसंदानितमपि सयत्नमापीड्य पुष्कलैः पुष्पदाममिः केशभारमभिष्टुतेष्टदेवता कृतगुरुजनप्रणतिरसंपादितोचितफले बाह्येऽपि परिजने जातानुतापा विपक्षवर्गेऽपि भावितप्रीतिः प्राङ्मुखीभूय सादरमन्तरबद्धलक्षा कृताञ्जलिरवदम्—'भगवन्तः सकलजन्तुग्रामकर्मसाक्षिणः सहस्राक्षपुरःसरा लोकपालाः, तस्य तत्कालमात्मनो बरत्वेन प्रतिपन्नस्य नृपकुमारस्य दर्शनात्मभृति न मया पुमानन्यश्चक्षुषापि साकासमवलोकित इत्यस्य सत्याभिभाषणस्य, अस्य च क्रोधवलक्ष्यनिर्वेदादिभिर्भावैरदूषितस्य, निजचारित्ररक्षणार्थमेव केवलमध्यवसितस्य जीवितपरित्यागस्य च यद्यस्ति कोऽप्यनुभावः, तत्तेनैव नृपकुमारेण सह जन्मान्तरेऽपि संगमो मे भूयात्' इत्यभिधाय कन्धरानिवेशितपाशवलया दूरमुन्मुत्य तस्यैवाशोकवृक्षस्य मूलवेदिकातः क्षितितलाभिमुखमात्मानममुचम् ।

 मुक्तदेहायाश्च मे गात्रभारेण दूरमाकृष्टादृष्टमत्साहसोत्पन्नसाध्वसेव सर्वतः समकम्पतासावशोकपादपशाखा । कम्पतरलितकुलायकोटरोड्डीनानि विस्तारिणा पक्षपातविरुतेन हाहारवमिव कुर्वाणानि पर्यन्तेषु मनमुः ससंभ्रमाणि विहंगमकुलानि । तैश्च सर्वतः कृतकरुणकोलाहलैस्खयाभूतमदवस्थादर्शनोबूततीत्रशोकैरिव ताडयद्भिरनवरतमुभयतः मेहता पक्षयुगलेन जठरमुद्वेज्यमाना गात्रपरिमलामनिताभिर्विहाय सविषवर्तिनीरुघानवीरुषो वेगाद्वाचितामिर्भमरमालाभिर्मजरीव प्रत्ययवं विलुप्यमाना तत्क्षणमाप्तमर्त्यलोकावतारशापेव त्रिदशललना