पृष्ठम्:तिलकमञ्जरी.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९४ काव्यमाला।

कितापि निपुणं मया त्वं न दृष्टा दृष्ट्या च सांप्रतम् । तत्किमेतत् ।कथय तथ्यम् । अत्यर्थमाकुलं मे हृदयम् । अन्यदेवोत्प्रेक्षेते किंचित्' इत्युत्पन्नरात्रिवृत्तदिव्यसुरतसंभोगविभ्रमभ्रमया ससंभ्रममनुयुज्यमाना तया वारंवारमीषदुपजातहासा सधीरमवदम्—'सखि, किमेवं सखेदासि । कृतमनिष्टशङ्काया । निराशङ्काम्स्व । मा खप्नेऽपि मां प्रतिकृथाः संकल्पमल्पसत्त्वसदृशमीदृशम्' इत्युदीर्य तस्याः सर्वमेव स(श) वरीवृत्तमात्मवृत्तान्तमादितः प्रभृत्यकथयम् ।  अथ सा तदाकर्णनेन परमोषजातनिवृत्तिस्तृप्सेवामृतेन कृतकृत्यमात्मानं मन्यमाना पुनः पुनरावावर्त्य पृच्छती तमेव मवृत्तान्तमतिचिरं स्थित्वा सभवनमगच्छत् । अहं तु संजातविस्मया मुहुर्मुहुर्विमृशती 'यदद्य पर्यङ्कमधिशयाना कृतानुबन्धयाप्यनया बन्धुसुन्दर्या न पूर्वमवलोकिता, तदा च कैवर्तपतिना क्षितिपतिकुमारेण च तेन पुरतोऽपि स्थित्ता परिवारसहितैव सा कैश्चिदपहृत्य नीतेति यत्संभाविता, स तस्य हरिचन्दनतिलकबिन्दोललाटलब्धास्पदस्य स्पष्टमनुभावः । यतः प्रमृष्ट तत्र पुनरागतायाः समागता दृष्टिगोचरमहममुप्याः' इति विचार्य भूयोऽप्यचिन्तयम्- 'यद्वा किमेतेन । मलयसुन्दरि, वन्दस्व सकलजनदृष्टिहारि हरिचन्दनमेतत्' इति वादिना तेन विद्याधरेण व्यक्तमेवोदिता तस्य शक्तिः' इत्यादि तत्तद्बहुविकल्पयन्त्यनल्पेनास्पदीकृता विषादेन परिहृताभरणमण्डनाभ्यवहारा तद्दिनमनैषम् ।

 अन्येद्युश्च समुपागता बन्धुसुन्दरी सुदूरमारूढशोकामायतोष्णनिःश्वासविधुरीकृताधरामनारताश्रुधाराधौतगण्डस्थलस्थापितोभयानकरतला-


१.दृष्टा इति स्यात्, २. 'उत्प्रेक्ष्यते,' इति स्यात्