पृष्ठम्:तिलकमञ्जरी.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला॥

सेन । विरम मुहूर्तम् । आकर्णय वचनमस्साकम्' इति निवार्यमाणोऽपि तेन प्रणयिना कर्णधारेण जलनिधावात्मानमक्षिपत् ।

 ।निपतिते च तत्रामप्याबद्धमरणाध्यवसाया 'समुद्रजलनिमग्नमप्येनमालिङ्ग्य सफलीभूतजीविता निखिलदुःखायासगेहं देहमिह उत्सृजामि' इति खभावकातरतया स्त्रीहृदयस्य दृढनिमीलिताक्षियुगला ततः सालशिखरादुत्प्लुत्य जलनिधावात्मानममुचम् ।

 उन्मीलितेक्षणा च क्षणान्तरे न तमुदप्रमणिसानुदीधितिध्वस्तगगनान्तरालतिमिरजालं रत्नकूटशैलम् , न तन्मूलभागसंनिविष्टमखिलविष्टपाद्भुतैकसदनं तदायतनम्, न तत्प्राकारपर्यन्तेषु सर्वतः प्रेङ्कदुच्छृङ्खलवीचिमालं तमर्णवम् , न तमभ्यर्णभाजमात्मनो गृहीतछत्रचामरमाद्यदर्शनेऽपि प्ररूढगाढसख्यमनवगीतनाट्यगीतादिकलाकौशलमवनिपालबालिकाजनम्, न तमब्धिपतितस्य क्षितिपसूनोः समुत्तारणाय समकालकृतजलनिधिप्रपातं नाविकवातम् , केवलं तस्यामेव प्रदोषसमयाध्यासितायां निजस्य कन्यान्तःपुरप्रासादस्य शिखरशालायां शयनतलमधिशयानमात्मानमद्राक्षम् । उत्पन्नसाध्वसा चकितमेतदिति चिन्तयन्ती स्थित्वा मुहूर्तमनेकसंकल्पपर्याकुलमानसा 'तत्कालमुपकल्पितो मया यस्तिलकः, स किं तथ्य उत मिथ्या' इति विज्ञातुमग्रपाणिना ललाटदेशमस्पृशम् । अपश्यं च मांसलामोदतर्पितघ्राणमङ्गुलीलममार्द्रमेव चन्दनपङ्कम् । अपसृतस्वप्नदर्शनशङ्का च तदवलोकनेन सकलमपि रात्रिवृत्तान्तमवितथं मन्यमाना तमपनीतसर्वाङ्गीणपट्टांशुकपाकरणा रणितमणिना भूषणचक्रवालेन वाचालयन्ती चित्रशालिकां शय्याममुश्चम् । समासीना च शयनासन्नवर्तिनि हेमपीठे सोत्कण्ठेन मनसा


१.'च किमेतदिति' इति स्यात्